________________
आवश्यक मूलसूत्रम् -१
परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाथकरस्पर्शसुखमनुभूय भूयोऽपि तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रौपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसभाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविध-शारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात्, परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्त्रेहविषयातुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् । आह-अज्ञानी कूर्मो निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमञ्जति इति, उच्यते, चरणगुणैः विविधम्-अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीणः निमज्जति बह्वपि जानन्, अपिशब्दात् अल्पमपि अथवा निश्चयनयदर्शनन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ प्रक्रान्तमेवार्थं समर्थयन्नाहनि. (९८) सुबहुंपि सुय महीयं किं काही ? चरणविप्पहीनस्स ।
अंधस्स जह पलिता दीवसयसहस्सकोडीवि ।। नि. (९९) अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स ।
इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ॥ वृ- गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्त्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दाद्वेअपि ।। आह-इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत् एव, यत आहनि. (१००) जहा खरो चंदनभारवाही, भारस्स भागी नहु चंदनस्स।
एवं खु नाणी चरणेण हीनो, नाणस्स भागी नहु साग्गईए ॥ वृ- गमनिका-यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी 'न तु' नैव 'सुगतेः' सिद्धिदयिताया इति गाथार्थः । इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छून्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपर्शयन्नाहनि. (१०१) हयं नाणं कियाहीणं, हया अन्नाणओ किया।
पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥ वृ- इयं निगदसिद्धैव, नवरं उदाहरणं-एगमि महानगरे पलीवणं संवुतं, तंपि य अनाहा दुवे जना-पंगलोय अंधलो य, ते नगरलोए जलणसंभमन्मंतलोयणे पलाय माणे पासंतो पंगुलओ गमनकिरियाऽभावाओ जाणओऽवि पलायणमगं कमागएण अगनिना दड्डो, अंधोऽवि गमनकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुंअगनिभरियाए खाणीए पडिऊण दड्डो । एस दिटुंतो, अयमत्थोवणओ-एव नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽवि नाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः-ज्ञानमेव विशिष्टफलसाऽधकं न भवति, सक्रियायोगशून्यत्वात्, नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञा नसंटङ्करहितत्वात्, नगरदाह एव अन्धस्य पलायनक्रियावत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org