________________
उपोद्घातः - [ नि. ९३ ]
चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनात् इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्यमुपन्यास इति, अलं विस्तरेण, 'सार:' फलं 'चरणस्य' संयमतपोरूपस्य, निर्वृतिनिर्वाणंअशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत् इहापि नियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, अत उक्तं- सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः । तथा चाह नियुक्तिकारः - सुअनामिवि जीवो वर्द्धतो सो न पाउणइ मोक्खं ।
नि. (९४)
जो तवसंजममइए जोए न चएइ वोढुं जे ॥
- गमनिका - 'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपः संयमात्मकान् योगान शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वा, प्रयोगश्च - 'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्तियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रिया-शून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, 'जे' इति पादपूरणे, 'इ जेराः पादपूरणे' इति वचनात् ॥ तथा चाह
नि. (९५)
जह छेयलद्धनिज्जामओवि वाणियगइच्छियं भूमिं । वाएण विना पोओ न चएइ महण्णवं तरिउं ॥
घृ- येन प्रकारेण यथा, 'छेको' दक्षः, लब्धः - प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि वणिज इष्टा वणिगिष्टा तां भूमिं महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः ॥
नि. (९६)
तह नालद्ध निजाम ओवि सिद्धिवसहिं न पाउणइ । निउणोवि जीवपोओ तवसंजममारुअविहूणो ||
६१
- तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधारधिष्ठितोऽपि शेषं निगदसिद्धं, किन्तु 'निपुणोऽपि' पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थं निपुणग्रहणं, तस्मात् तपः संयमानुष्ठाने खल्प्रमादवता भवितव्यमिति गाथाद्वयार्थः । तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः नि. (९७) संसारसागराओ उब्बुड्डो मा पुणो निबुड्डिजा ।
चरणगुणिवप्पीणो बुइ बहुपि जाणंतो ॥॥॥
वृ- पदार्थस्तु दृष्टन्ताभिधानद्वारेणोच्यते यथा नाम कश्चित्कच्छपः प्रचुरतॄणपत्रात्मकनिरिछद्रपटलाच्छादितोदकान्ध-कारमहाहूदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org