________________
आवश्यक मूलसूत्रम्-१.
होति महाविजाए किरिया पायं सविग्घा य ।। तह कम्पठितीखवणे परिमउई मोक्खसाहणे गरुई।
इह दंसणादिकिरिया दुलभा पायं सविग्धा य ।।" अथवा यत एव बही कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादगुणलाभः संजायते, निरशेषकर्मपरिक्षये सिद्धत्ववत, तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् । इदानीं सम्यक्त्वादिगुणप्राप्तिविधिरुच्यते-जीवा द्विधा भवन्ति-भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणमिति परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च । तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, अप्राप्तपूर्वमपूर्वं, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्त्तते, तत्राभव्यानां आद्यमेव भवति, तत्र यावग्रन्थिस्थानं तावदाद्य भवति, तमतिकामतो द्वितीयं, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति ।।
इदानी करणत्रयमङ्गीकृत्य सामायिकलाभधष्टान्तानभिधित्सुराहनि. (१०७) पल्लय गिरिसरिउवला पिवीलिया पुरिस पह जरग्गहिया ।
कुद्दव जल वत्थाणि य सामाइयलोभदिलुता ।। वृ-तत्र पल्लकदृष्टान्तः-पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्यं प्रक्षिपति स्वल्पं स्वल्पतरं, प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्प तरमुपचिन्वन् बहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिकामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमुस्वस्य तु अनिवर्तीति, एष पल्यकदृष्टान्तः । आह-अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रतिसमयं कर्मणश्चयापचयावुक्तौ, तत्र चासंयतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः
"पल्ले महइ-महल्ले कंभ पक्खिवइ सोहए नालिं।
असंजए अविरए बहु बंधइ निज्जरइ थोवं ।। पल्ले महइमहल्ले कुंभं पक्खिदइ सोहए नालिं ।
असंजए अविरए बहु बंधइ निज्जरइ थोवं ।। पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे न किं चि ।
जे संजए अपमत्ते बहु निञ्जरे बंधइ न किंची ।।" ततश्च एवं पूर्वमसंयतस्थ मिथ्याष्टेः प्रभूततरवन्धकस्यकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध ! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्-असंयतस्य बहुतरस्योपचयोऽल्पतरस्य चापचयः, अन्यथाऽनवरतप्रभूततरवन्धाङ्गीकरणे खल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत्, सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदं पल्येत्यादि द्रष्टव्यमिति । कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद् गिरिसरित् तस्यां उपलाः-पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवति-यथा गिरिसरिदुपलाः परस्परसनिघर्षेण उपोगशून्या अपि विचित्राकृतयो जायन्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org