________________
अध्ययनं ४ - [ नि. १३२०]
एवात्मा, तत्रैव सुखदुःखादितत्कार्योपलब्धेः पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धिर्नाजीवत्वादिति, जीवा अप्येकान्तणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हितुकत्वादेकान्तनष्टस्यासदविशेषत्वात्, सत्त्वाः संसारिणः ( देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात्, तथाऽन्यैरप्युक्तं
“नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। " इत्यादि
कालस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु नास्त्येव काल इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः
-
२११
“कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिकमः । ।" इत्यादि, उत्तरं - कालोऽस्ति, तमन्तरेण वकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य परिणामानुपपत्तेः ।
श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तुको आउरस्स कालो ? मइलंबरधोवणे य को कालो ? । जइ भोक्खहेउ नाणं को कालो तस्सऽकालो वा ? । । इत्यादि, (उत्तरं ) - जोगो जोग्गो जिनसासणंमि दुक्खक्खया पउंजंतो । अनोन्नमबाहाए असत्तो होइ कायव्वो ।।
प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरक्तं ।
श्रुतदेवताया आशातनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी या, उत्तरं न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति, न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यो ह्युपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं- निर्दुःखसुखः प्रभूतान् वारान् बन्दनं दापयति, उत्तरं श्रुतोपचार एषः क इव तस्यात्र दोष इति -
मू. (२९) जं वाइद्धं वच्चामेलियं हीणक्खरियं अचक्खरियं पयहीणं विनयहीणं घोसहीणं जोगीणं सुदिनं दुट्ट पडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं ।
Jain Education International
वृ- एए चोद्दस सुत्ता पुव्विल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथाव्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तथा हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यास्नेडितं कोलिकपायसवत्, हीनाक्षरम्अक्षरन्यूनम्, अत्यक्षरम् - अधिकाक्षरं, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम् - उदात्तादिघोषरहितं, योगरहितं सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न
For Private & Personal Use Only
www.jainelibrary.org