SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२७३] आहारगुत्ते अविभूसियप्पा, इत्थिं न निन्झाइन संथवेजा । बुद्धो मुनी खुड्डकहं न कुज्जा, धम्मानुपेहीसंधए बंभचेरं ।। जे सद्दस्वरुवंरसगंधैमागए, फासे य संपप्प मणुन्नपावए । गिहीपदोसन करेज पंडिए, सहोइदंते विरए अकिंचणे ।। गाथाः पञ्च, आसांव्याख्या-ईरणम् ईया, गमनमित्यर्थः, तस्यांसमितः-सम्यगित ईर्यासमितः, ईसिमितता प्रथमभावना यतोऽसमितःप्राणिनो हिंसेदतः सदा यतः-सर्वकालमुपयुक्तः सन् ‘उवेह भुंजेज व पानभोयणं' 'उवेह'त्ति अवलोक्य मुजीत पानभोजनं, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपौपात्रादेग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सकः, अजुगुप्सन् प्राणिनो हिंस्यात् तृतीयभावना, संयतः-साधुः समाहितः सन् संयमे 'मणोवइत्तिअदुष्टं मनः प्रवर्तयेत्, दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपिपञ्चमी भावना, गताः प्रथमव्रतभावनाः द्वितीयव्रतभावनाः प्रोच्यन्ते- 'अहस्ससच्चे'त्ति अहास्यात् सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य-पर्यालोच्य भाषेत, अन्यथाऽनृतमपिब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत्, सइत्थम्भूतो दीर्धरात्रंमोक्षं समुपेक्ष्य-सामीप्येन द्रष्टा (दृष्ट्रा) 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधदिभ्योऽनृतभाषणादिति भावनात्रयं, गता द्वितीयव्रतभावनाः तृतीय व्रतभावनाः प्रोध्यन्ते 'स्वयमेव' आत्मनैवप्रभुप्रभुसंदिष्टं वाऽधिकृत्यअवग्रहयाञ्चायां प्रवर्तते अनुविचिन्त्यान्यन्थऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मइमं निसम्मत्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइभिक्खु उग्गहं' तिसदा भिक्षुखग्रहस्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्या साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमीभावना, उक्तास्तृतीयव्रतभावनाः साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते-‘आहारगुत्ते'त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात्प्रथमा भावना, अविभूषितात्मास्याद्-विभूषांन कुर्याद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज्जत्ति न स्त्र्यादिसंसक्तां वसति सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः-अवगततत्त्वः मुनिः-साधुःक्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात् पञ्चमी भावना, 'धम्म (धम्मानु) पेही संधए बंभचेरं'तिनिगदसिद्धम्, उक्ताश्चतुर्थव्रतभावनाः पञ्चमव्रतभावनाः प्रोच्यन्ते-यः शब्दरुपरसगन्धानागतान्, प्राकृतशैल्यालाक्षणिकोऽनुस्वारः, स्पर्शाश्च संप्राप्य मनोज्ञपापकान्-इष्टानिष्टानित्यर्थः,गद्धिम्-अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तंन कुर्यात् पण्डितः,स भवति दान्तो विरतोऽकिञ्चन इति, अन्यथाऽभिष्वङ्गादेःपञ्चममहाव्रतविराधना स्यात्, पञ्चापिभावनाः,उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहार्थे यथाक्रमं प्रकटार्थाभिरेव 12511 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy