________________
१६०
आवश्यक मूलसूत्रम् -२- ४ / २६ भवितव्यं १५, 'रोग' त्ति रोगः - ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी षहजयः कृतो भवति १६, 'तणफास 'त्ति अशुषिरतृणस्य दर्भादिः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान् भूमावास्तीर्य संस्तारोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात्, तथाऽपि तं परुषकुशदभादितृणस्पर्शे सम्यक् सहेत १७, 'मल' त्ति स्वेदवारिसम्पर्कात्कठिनीभूतं रजो मलोऽभिधीयते स वपुत्रि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् १८,
'सक्कारपरीसहे' त्ति सत्कारो भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारःसद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात् १९, 'पन' ति प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्वहेत् २०, 'अन्नाणं' ति कर्मविपाकजादज्ञानान्नोद्विजेत २१, 'असंमत्तं' ति असम्यक्त्वपरीपहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असभ्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुदलात्मकौ ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिको धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरुपत्वात् प्रत्यक्षविरोधः देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्याभावात् दुष्षमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीव्र वेदनार्ताः, पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीष हजयो भवति, 'वावीस परीसह 'त्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः । । त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि
पुंडरीयकरियद्वाणं आहारपरिनपच्चक्खाणकिरियाय । अनगारअद्दनालंद सोलसाई च तेवीसं ।।
,
गाथा निगदसिद्धैव ।। चतुर्विंशतिभिर्देवैः क्रिया पूर्ववत्, तानुपर्शयन्नाहभवनवन जोइवेमाणिया य दस अट्टपंचएगविहा ।
इइ चउवीसं देवा केइ पुन बेति अरहंता ।।
इयमपि निगदसिद्धैव ।। पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत्, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमा:
-
इरियासभिए सया जए, उवेह भुंजेज व पानभोयणं । आयाणनिक्केवदुर्गुछ संजए, समाहिए संजमए मनोवई । अहस्ससच्चे अनुवाइ भासए, जे कोहलोहभयमेव वज्रए । सदीहरायं समुपेहिया सिया, मुणी हू मोसं परिवज्जए सया ।। सयमेव उग्गहज्जायणे, घडे मतिमं निसम्म सइ भिक्खु उग्गहं । अनुन्नविय भुंजिज पाणभोयणं, जाइत्ता साहंभियाण उग्गहं ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org