________________
अध्ययनं -४- नि. १२७३]
१५९ अस्य गाथात्रयस्यापिव्याख्या प्राग्निरुपितसबलानुसारेणकार्या । द्वाविंशतिभिः परीषहै:, क्रिया पूर्ववत्, तत्र "मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः” सम्यग्दर्शनादिमार्गाच्यवनार्थे ज्ञानावरणीयादिकर्मनिर्जरार्थ च परि-समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्याः-सहितव्या इत्यर्थः, परीषहांस्तान् स्वरुपेणाभिधित्सुराह
खुहा पिवासा सीउण्हं दंसाचेला रइथिओ । चरियानिसीहिया सेज्जा अक्कोस वह जायणा ।। अलाभ रोगतणफासा मलसक्कारपरीसहा ।
पन्ना अन्नाणसंमत्तं हइबावीस परीसहा ।। वृ-क्षुत्परीषहः-क्षुद्वेदनामुदितामशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसा शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात्क्षुत्परीषहः, १,एवं पिपासापरीषहोऽपिद्रष्टव्यः २, 'सीय'ति शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुजीत वा, नापिशीतार्तोऽग्निं ज्वालयेत् अन्यज्यालितंया नाऽऽसेवयेत्, एवमनुतिष्ठता शीतपरीषहजयः कृतोभवति ३, 'उण्ह' उष्णपरितप्तोऽपि न जलावगाहनस्नानव्यजनवातादि वाञ्छयेत्, नैवातपत्राशुष्णत्राणायाऽऽददीतेति, उष्णमापतितंसम्यक् सहेत्एवमनुतिष्ठतोष्णपरीषहजयः कृतोभवति ४, दसति दंशमशकादिभिर्दश्यमानोऽपिन ततः स्थानादपगच्छेत्, न च तदपनयनार्थे धूमादिना यतेत, नच व्यजनादिना निवारयेदिति, एवमनुतिष्ठाता दंशपरिषहजयः कृतो भवति ५, एवमन्यत्रापि क्रिया योज्या, 'अचेल त्ति अमहाधनमूल्यानि खण्डितानि जीर्णानि च वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत्, तथा चागमः
परिजुन्नेहिं वत्थेहिं, होक्खामित्ति अचेलए ।
अहुवा सचेलए होक्खं, इति भिक्खून चिंतए ।। इत्यादि ६, 'अरति त्तिविहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यतेतत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यं, 'इत्थीउत्ति न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितनयनविभ्रमादिचेष्टां चिन्तयेत्, न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासुकामबुद्ध्येति ८, 'चरिय'त्ति वर्जितालस्यो ग्रामनगरकलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासंचर्यामाचरेदिति ९, 'निसीहिय'ति निषीद्गत्यस्यामिति निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसति सेवेत पश्चाद्भाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत १०, सेजत्ति शय्यासंस्तारकः-चम्पकादिपट्टो मूदुकठिनादिभेदेनोचावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वातत्र नोद्विजेत ११, 'अक्कोस'ति आक्रोश:-अनिष्टवचनं तच्छुत्वा सत्येतरालोचनया न कुप्येत १२, 'वह'त्ति वधः- . ताडनं पाणिपार्णिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहेत, स्वकृतकर्मफलमुपनतमित्येवमभिसंचिन्तयेत् १३, 'जायण'त्ति याचनं मार्गणं, भिक्षोर्हि वस्त्रपात्रानपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शालीनतया च न याव्चां प्रत्याद्रियते, साधुना तुप्रागल्भ्यभाजा सजाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कामिति, एवमनुतिष्ठता याचापरीषहजयः कृतो भवति १४, 'अलाभ'त्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org