________________
अध्ययनं ४ - [ नि. १२७१]
१२१
-
?
दुष्प्रणिहितकायिकी उपरतकायिकी, (च) तत्र मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाऽऽघा अविरतस्य कायिकी - उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य, सा पुनर्द्विधा इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकीच, तत्राऽऽद्येन्द्रियैः श्रोत्रादिभिर्दुष्प्रणिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी एवं नोइन्द्रियेण मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाऽप्रमत्तसंयतस्य- उपरतस्यसावद्ययोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी १, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम- अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता-अधिकरीणकी तया, सा पुनर्द्विधाअधिकरणप्रवर्तिनी निर्वर्तिनी च तत्र प्रवर्तिनी चक्रमहः पशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खङ्गादिनिर्वर्तिनी, अलभन्यैरुदाहरणैः, अनयोरेवान्तः पातित्वात्तेषां गताऽऽधिकरणिकीर, प्रद्वेपःमत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रद्वेषिकी च, आद्या जीवे प्रद्वेपं गच्छतः, द्वितीया पुनरजीवे, तथाहि पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया ३,
परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया, असावपि द्विधैवस्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारतापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीय परहस्तेन कायरतः, गता चतुर्थी ४, प्राणतिपातः प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाघर्थ वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परप्राणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिहींलितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचकः स्मार्ती वा याग इति, गता पञ्चमी ५ ।
ܩܩ
-
क्रियाऽधिकाराच्च शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विशतिः क्रियाः प्रदर्श्यन्ते, तंजहाआरंभिया १ परिगहिया २ मायावत्तिया ३ मिच्छादंसणवत्तिया ४ अपच्चक्खाणकिरिया ५ दिट्टिया ६ पुट्टिया ७ पाडुच्चिया ८ सामंतोवणिवाइया ९ नेसत्थिया १० साहत्थिया ११ आणमणिया १२ वियारणिया १३ अणाभोगवत्तिया १४ अणवकखवत्तिया १५ पओगकिरिया १६ समुयाणकिरिया १७ पेज्जवत्तिया १८ दोसवत्तिया १९ ईरियावहिया २० चेत्ति,
तत्थारंभिया दुविहा- जीवारंभिया य अजीवारंभिया य जीवारंभिया जं जीवे आरंभइ अजीवारंभिया - अजीवे आरंभइ १, पारिग्गहिया किरिया दुविहा- जीवपारिग्गहिया अजीवपारिगहिया य, जीवपारिगहिया जीवे परिगिण्हइ, अजीवपारिगहिया- अजीवे परिगिण्हइ २, मायावत्तिया किरिया दुविहा- आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गूहइ नियडीमंतो उज्जुभावं दंसेह, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया तं तं आयरति जेण परो वंचिज्जइ कूडलेहकरणाहिं ३, मिच्छादंसणवत्तिया किरिया दुविहाअनभिग्गहियमिच्छादंसणवत्तिया य अभिग्गहियमिच्छादंसणवत्तिया य, अनभिग्गहियमिच्छा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org