SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ १२० आवश्यक-मूलसूत्रम् -२- ४/२१ वायुसमन्वितः द्रुतं' शीभ्रं च दहति भस्मीकरोति, तथा दुःखतापहेतुत्वात कमैवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन' समयेन घ्यानमनल इव ध्यानानलः असौ ‘दहति' भस्मीकरोतीतिगाथार्थः ।। जह वा घनसंघाया खणेण पवणाहया विलिज्जंति । झाणवणावया तह कम्मघना विलिज्जति ।। १०२ ॥ - यथा वा 'घनसङ्घाताः' मेधौधाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलयं-विनाशं यान्तिगच्छन्ति, 'घ्यानपवनावधूता' घ्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणादधनाः २, उक्तं "स्थितः शीतांशुवज्जीवः, प्रकृत्याभावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद ।।'' इत्यादि, 'विलीयन्ते विनाशमुपयान्तीति। किं चेदमन्यद?, इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि व वाहिज्जइ मानसेहिं दुक्खेहिं । साविसायसोगाइएहिं झाणोवगयचित्तो ।। १०३ ॥ वृ- 'नकषायसमुत्थैश्च' नक्रोधाधुद्भवैश्च बाध्यते' पीड्यतेमानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषाद: वैक्लव्यं शोकः-दैन्यम्, आदिशब्दाद् हर्षादिपरिग्रहः, घ्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ।। सीयायवहाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिच्चलचित्तो न वहिज्जइ निजरापेही । । १०४ ।। वृ- इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शरीरैः 'सुबहुप्रकारैः' अनेक भेदैः ‘घ्यानसुनिश्चलचित्तः' ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इतिगाथार्थः ।। उक्तं फलद्वारम्, अधुनोपसंहरन्नाह इय सव्वगुणाधानं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धैवं नेयं झेयं च निच्चंपि ।। १०५ ॥ वृ- 'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात सुष्ठु प्रशस्तं २, तीर्थकरगणधरादिभिरासेविततवात, यतश्चेववमतः, श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं' ज्ञातव्यं स्वरूपतः 'ध्येयम' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, नित्यमपि' सर्वकालभपि, आह-एवं सर्वक्रियालोपः प्राप्नोति, न तदासेवनस्यापि तत्त्वतो ध्यानत्वात, नास्ति काचिदसौ क्रिया यया साधूनां घ्यानं न भवतीति गाथार्थः ।। __ मू. (२२) पडिक्कमामि पंचहि किरियाहिं काइयाए अहिगरणियाए पाउसिवाए पारितावणियाए पाणाइवायकिरियाए वृ. प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथाः'काइयाए' इत्यादि, चीयत इति कायः, कायेन निर्वृत्ता काधिकी तया, सा पुनस्त्रिधा-अविरतकायिकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy