________________
अध्ययनं-४- [नि.१२७१]
११९ दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं ॥९४ ॥ वृ-ते च विशेषेण 'शुभाश्रवादयः' अनन्तरोदिताः, अनुत्तराभरसुखं च द्वयोः शुक्लयोः फलमाघयोः ‘परिनिर्वाणं' मोक्षगमनं परिल्लाणं ति चरमयोद्धयोरितिग्गथार्थः ।। अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति
आसवदारा संसारहेयवो जंन धम्मसुक्केसु ।
संसारकारणाइंतओधुवंधम्मसुक्काई ।।९५ ॥ वृ-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मात्र शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद 'ध्रुवं’ नियमेन धर्मशुक्ले इति । संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्यावेदयन्नाह
संवरविनज्जराओ मोक्खस्स पहो तवो पहो तासिं ।
झाणं च पहाणंगंतवस्सतो मोक्खहेऊयं ।। ९६ ।। वृ-संवरनिर्जरे मोक्षस्य पन्थाः' अपवर्गस्य मार्गः,तपः पन्थाः' मार्गाः 'तयोः' संवरनिर्जरयोः घ्यानं च प्रधाननाएं तपसः आत्रकारणत्वात, ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ।। अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह
अंबरलोहमहीनं कमसो जहमलकलकपंकाणं ।
सोज्झावणयणसोसे साहेतिजलाणलाइच्चा ।। ९७ ।। वृ- अम्बरलोहमहीनां' वस्त्रलोहार्द्रक्षितीनां क्रमशः' क्रमेण यथा मलकलङ्कपकानां यथासङ्ख्य शोध्यपनयनशोषान् यथासङ्ख्यमेव साधयन्ति' निर्विर्तयन्ति जलानलादित्या इति गाथार्थः ।।
तह सोज्झाइसमत्वा जीवंबरलोहमेइणिगयाणं ।
झाणजलाणलसूरा कम्ममलकलंकपकाणं ।। ९८ ॥ वृ- तथा शोघ्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां घ्यानमेव जलानलसूर्याः कर्मैव मलकलङ्कपङ्कास्तेषामिति गाथार्थः ।।
तापोसोसो भेओ जोगाणं झाणओ जहा निययं ।
__ तह तावसोसभेया कम्मस्सवि झाइणो नियमा ।।९९ ॥ वृ-तापः शोषोभेदो योगनां 'घ्यानतः' घ्यानात् यथा 'नियतम्' अवश्यं,तत्रतापः-दुःखं तत एवशोषः-दौर्बल्यं तत एव भेदः-विदारणं योगानां-वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य?- 'घ्यायिनः' न यदृच्छया नियमेनेतिगाथार्थः ।।
जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं ।
तह कम्मामयसमणं झाणाणसणाइजोगेहिं ।। १००॥ वृ- यथा 'रोगाशयशमनं’ रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, तथा 'कर्मामयशमनं कर्मरोगचिकित्सा घ्यानानशनादिभिर्योगैः, आदिशब्दाद् घ्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः ।। किंच
जह चिरसंचियमिंधनमनलो पवणसहिओ दुर्य दहइ ।
तह कम्मेधनभमियं खणेण झाणानलो डहइ ।। १०१ ॥ वृ- यथा 'चिरसञ्चितं' प्रभूतकालसञ्चितम् ‘इन्धन' काष्ठादि ‘अनलः' अग्निः ‘पवनसहितः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org