________________
अध्ययनं -४- [नि. १२७१]
११७ वृ- 'प्रथम' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं, तच्चागीमकश्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कमविचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् 'अयोगिनि च' शैलेशीकेवलिनि चतुर्थं' व्युपरतक्रियाऽप्रतीपातीतिगाथार्थः ।। आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वा केवलिनः, ध्यानं च मनोविशेषः ‘ध्यै चिन्ताया मिति पाठात्, तदेतत्कथम् ?, उच्यते
जह छउमत्थस्स मनो झाणं भन्नइ सुनिच्चलो संतो।
तह केवलिनो काओ सुनिच्चलो भन्नए झाणं ।। ८४ ॥ वृ-यथा छद्मस्थस्य मनः, किं ?-घ्यानं भण्यते सुनिश्चलं सत, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते घ्यानमिति गाथार्थः ।। आह-चतुर्थे निरुद्धत्वादसावपिनभवति, तथाविधभावेऽपिच सर्वभावप्रसङ्गः, तत्र का वार्तेति?, उच्यते
पुव्वप्पओगओ चिय कम्मविनिज्जरणहेउतो यावि । सहत्थबहुत्ताओ तह जिनचंदागमाओ य ।। ८५ ॥ चित्ताभावेवि सया सुहुमोवरयकिरियाइ भन्नति ।
जीवोवओगसब्भावओ भवत्थस्स झाणाई ।। ८६ ॥ वृ-काययोगगनिरोधिनो योगिनोऽयोगिनोऽपि चित्ताभावेऽपि सूक्ष्मोपरतक्रियो, भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद्व्युपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः,यथा चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसोभावतभवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः, विशेषस्तूच्यते-'कर्मविनिर्जरणहेतुतश्चापि' कर्मविनिर्जरणहेतुत्वात् क्षपक श्रेणिवत, भवति च क्षपश्रेण्याभिवास्य भयोपग्राहिकर्मनिर्जरेत भावः, चशब्दः प्रस्तुतहेतुत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थबहत्वात' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनकार्थाः एवं घ्यानशब्दस्यापि न विरोधः, 'ध्यै चिन्तायां' 'ध्यै कायनिरोधे' 'म्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाचैतदेवमिति, उक्तंच
'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम |
अतीन्द्रियाणामथानां, सद्भावप्रतिपत्तये ।। इत्यादि गाथाद्वयार्थः ।। उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते
सुक्कन्झाणसुभावियचित्तो चिंतेइझाणविरमेऽवि ।
निययमनुप्पेहाओ चत्तारिचरितसंपन्नो । । ८७ ॥ वृ-शुक्लघ्यानसुभावितचित्तश्चिन्तयति घ्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाथार्थः ।। ताश्चैताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org