________________
११६
आवश्यक - मूलसूत्रम् - २- ४ / २१
,
पर्यावाणां यदेकस्मिन द्रव्ये - अण्वात्मादौ किं ? नानानयैः- द्रव्यास्त्किदिभिरनुस्मरणं-चिन्तनं, कथं ? - पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा । । तत्किमित्याहसवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स || ७८ ॥
वृ- 'सविचार' सह विचारेण वर्तत इति २, विचारः - अर्थव्यञ्जनयोगसङ्क्रम इति, आह च‘अर्थव्यञ्जनयोगान्तरतः-अर्थः- द्रव्यं व्यञ्जनं- शब्दः योगः-मनः प्रभृति एतदन्तरतः एतावद्भेदेन सविचारम्, अर्थाद्व्यञ्जनं सङ्क्रामतीति विभाषा, 'तकम' एतत 'प्रथमं शुक्लम' आद्यशुक्लं भवति, किंनामेत्यत आह- 'पृथक्त्ववितर्क सविचारं' पृथक्त्वेनभेदेन विस्तीर्णभावेनान्ये वितर्कःश्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- 'अरागभावस्य' रागपरिणामरहितस्येति गाथार्थः जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उ बठिइमंगाइयाणमेगंमि पज्जाए ॥ ७९ ॥
वृ- यत्पुनः 'सुनिष्प्रकम्पं ' विक्षेपरहितं 'निवातशरणप्रदीप इव' निर्गतवात गृहैकदेशस्य दीप इव 'चित्तम्' अन्तःकरणं, क्व ? उत्पाद स्थिति भङ्गादीनामे कस्मिन् पर्याये ॥ ततः किमत आहअवियारमत्थवंजणजोगंतरओ तयं बितियसुकं । पुव्वगयसुयालंबण मेगत्तवितक्क विचारं ॥ ८० ॥
वृ- अविचारम्- असङ्क्रमं, कुतः ? अर्थव्यञ्जन योगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्लं भवति, किमभिधानमित्यत आह- 'एकत्व वितर्कम विचारम्' एकत्वेन अभेदेन वितर्कः व्यञ्जन रूपोऽर्थरूपो वा यस्य तत्तथा इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थ: ॥
निव्वाणगमनकाले केवलिणो दरनिरुद्धजोगस्स |
सुहुमकिरियाऽनियहिं तइयं तणुकायकिरियस्स ।। ८१ ॥
वृ- 'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये 'केवलिनः' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ? 'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात न निवर्ति अनिवर्ति तृतीयं घ्यानमिति गम्यते, 'तनुकायक्रियस्ये' ति तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ||
तस्सेव व सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियामप्पडिबाइ ज्झाणं परमसुक्कं ।। ८२ ॥
वृ- 'तस्यैव च ' केवलिनः 'शैलेशीगतस्य' शैलेशी - प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ? - निरुद्धयोगत्वात 'शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ? - व्यवच्छिन्नक्रियं योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लंप्रकटार्थमिति । इत्थं चतुर्विधं घ्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराहपढमं जोगे जोगेसु वा मयं बितियमेव जोगंमि । तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं । । ८३ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org