________________
१०८
आवश्यक-मूलसूत्रम्-२- ४/२१ 'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं, जनो याति सहेतुकम् ।। पयोव्रतो न दद्ध्यत्ति, न पयोऽत्ति दधिव्रतः ।
अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्कम् ।।" ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यीत धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तंच
'सर्वव्यक्तिषु नियतं क्षणेक्षणेऽन्यत्वमथचन विशेषः ।
सत्यश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।' आदिशब्दादगुरुलघ्वादिपर्यायपरिग्रहः, चशब्दः समुञ्चयार्थ इति गाथार्थः ।। किंच
पंचत्थिकायमइयं लोगमनाईणिहणं जिणक्खायं ।
नामाइभेयविहियं तिविहमहोलोयभेयाई ।। ५३ ॥ वृ-'पञ्चास्तिकायमयं लोकमनाघनिधनं जिनाख्यात'मिति, क्रिया पूर्ववत, तत्रास्तयःप्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याद्युपग्रहकरा ज्ञेया इति, उक्तंच
'जीवानां पुद्गलानांच, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ।। जीवानांपुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ।। जीवानां पुद्गलानांच, धर्माधर्मास्तिकायायोः ।
बदराणां घटो यद्वदाकाशमवकाशदम् ।। ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ।।
स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः ।
सङ्घातभेदनिष्पन्नः पुगल जिनदेशिताः ।।" तन्मयं-तदात्मकं, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह-'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्रएवेत्यत आहजिनाख्यातं' तीर्थकरप्रणीतम्, आह-'जिनदेशितानि'त्यस्माज्जिनप्रणीताधिकारोऽनुवर्तत एव ततश्चजिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात, आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तम्
"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु ।
ईपत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।।" तथा हि नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तंच.
'नामंठवणा दविए खित्ते काले तहेव भावे य ।। पज्जवलोगो यतहा अट्टविहो लोगंभि(म) निक्खेवो ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org