________________
अध्ययनं -४. [नि. १२७१]
१०७ प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं 'योगानुभावजनितं' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः ।। भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं-इह भिन्नं विहत्तं सुहं पुन्नं सायाइयं असुहं पावं तेहिं विहत्तं-विभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिज्जा, किं च-ठिइविभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, ठिइत्ति तासिं चेव अट्ठण्हं पयडीणं जहन्नमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किंच-पएसभिन्नं शुभाशुभं यावत्
'कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद वग्र्यो ।
वर्गधनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत् ।।' कृत्वा विधान मिति- २५६, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गधनौ क्रियते, एवमनेन क्रमेणायं राशिः १६७७७२१६ चिंतेज्जा पएसोत्ति जीवपएसाणं कम्मपएसेहिं सुहुमेहि एगखेत्तावगाढेहिं पुट्ठोगाढअनंतरअनुबायरउद्धाइभेएहं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं कम्मविवागं विचिंतेज्जा किं च-अनुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अनुभावोत्ति तासिं चेवऽट्टण्हं पयडीणं पुट्ठबद्धनिकाइयाणं उदयाउ अनुभवणं, तं च कम्मविवागं जोगानुभावजणियं विचिंतेज्जा, तत्थ जोगा मनवयणकाया, अनुभावो जीवगुण एव, स च मिथ्यादर्शनाविरतिप्रमादकषायाः, तेहिं अनुभावेण वजणियमुप्पाइयंजीवस्स कम्मंजं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्यतृतीयोध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते तत्र
जिनदेसियाइ लक्खणसंठाणासणविहाणमाणाई ।
उप्पायट्टिइभंगाइ पज्जवाजे व दहाणं ।। ५२ ॥ दृ- जिनाः-प्राग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-'लक्षण संस्थानासनविधानमानानि,' किं ? -विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठ्यां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत, अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाघजीवानां, यथोक्तम-'परिमंडले य वट्टे तंसे चउरंस आयतेचेव' जीयशरीराणां च समचतुरस्रादि, यथोक्तम्
'समचऊरंसे नगोहमंडले साइवामणे खुज्जे ।
हुंडेवियसंठाणे जीवाणं छ मुणेयव्वा ।।' तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्तंच
'हेट्टा मज्झे उवरि छघीझल्लरिमुइंगसंठाणे ।
लोगो अद्धागारो अद्धाखेत्तागिई नेओ ।।' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणिवा, तथा विधानाधिर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-'धम्मत्थिकाए धम्मत्कियस्स देसे धम्मत्थिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः ‘उत्पादव्ययध्रौव्ययुक्तं सदिति वचनाद, युक्तिः पुनरत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org