SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ १०६ आवश्यक-मूलसूत्रम् -२-४२१ एहिकामुष्मिकविरोधिनी, उक्तंच "रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ।।" तथा 'द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरथो ज्वलन्नाशु, दावानल इव द्रुमम् ।।" तथा-'दृष्टयादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्धः संसार एवोक्तः सर्वज्ञः सर्वदर्शिभिः ।।' इत्यादि, तथा 'दोसानलसंसत्तो इह लोए चेव दुक्खिओ जीवो । परलोगंमि य पायो पावइ निरयानलं तत्तो ।।' इत्यादि, तथा कषायाः-क्रोधादयः, तदपायाः पुनः 'को हो य मानो य अनिगाहीया, माया य लोहो य पवद्यमाणा । चतारि एए कसिणो कसाया, सिंचंति मूलाई पुनब्भवस्स ।।' तथाऽऽश्रवाः-कर्मबन्धहेतवो मिथ्यात्वादयः तदपायः पुनः “मिच्छत्तमोहियमई जीवो इहलोग एव दुक्खाई। निरओवमाईपावो पावइपसमाइगुणहीनो ।।' तथा'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थे हितमहितं वा न वेत्ति योनावृत्तो लोकः । । तथा'जीवा पाविति इहं पाणवहादविरइए पावाए | नियसुयधायणमाई दोसे जनगरहिए पावा ।। परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे । जीवाण चिरभवाया निरयाइगईभमंताणं ।।' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, क्रियास्तु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः किरियासु वट्टमाणा काइगमाईसुदुखिया जीवा । इह चेव य परलोए संसारपवड्डया भणिया ।।' ततश्चैवं रागादिक्रियासु वर्तमानानामपायानध्यायेत, किंविशिष्टः सन्नित्याह-'वय॑परिवर्जी' तत्र वर्जनीयं वय॑म्-अकृत्यं परिगृह्यते तत्पररिवर्जी-अप्रमत्त इति गाथार्थः ।। उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते तत्र पयइठिइपएसानुभावभिन्नं सुहासुहविहत्तं । जोगानुभावजणियं कम्मविवागं विचिंतेज्जा ।। ५१ ॥ वृ-'प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्त'मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिःतासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बोऽभिधीयते, अनुभावशब्देन तु विपाकः, एत च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततश्चैतदुक्तं भवति Jain Education International For Private & Personal Use Only For www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy