SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२७१] १०५ ननु या एवं विशेषणविशिष्टा सा बोद्धुमपि न शक्यते मन्दधीमिः, आस्तां तावद्धयातुं, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह तत्थ य मइदोब्बलेणं तन्निहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदएणं च ।।४७ ॥ वृ- 'तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ? -जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धेःसम्यगर्थानवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधःसम्यगविपरीततत्त्वप्रतिपादनकुशलः आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्चासावाचार्यश्च २ तद्विरहतः-तदभावतश्च, चशब्द: अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः कचिदुभयवस्तुपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयंधर्मास्तिकायादि तद्गहनत्वेन-गह्नरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुञ्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्रज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः,अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषमभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ।। तथा _हेऊदाहरणासंभवे यसइ सुट्ट जं न बुज्झेज्जा । सव्वन्नुमयमवितहं तहावितं चितए अइमं ।। ४८ ॥ वृ-तत्रहिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः-कारको व्यच्चकञ्च, उदाहरणंचरितकल्पितभेदं, हेतुश्चोदाहरणंच हेतूदाहरणेतयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिश्च, चशब्दः पञ्चमषष्ठकारणसमुश्चयार्थः, 'सति' विघमाने, किं ? - 'यद्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् ‘सर्वज्ञमतमवितथं तथापि तश्चिन्तयेन्मतिमा' निति तत्र सर्वज्ञाःतीर्थकरास्तेषां मतं सर्वज्ञमतं-वचनं, किं ?-वितथम्-अनृतं न वितथम्-अवितथं सत्यमित्यर्थः, 'तथापि तदबोधकारणे सत्यनवगच्छन्नपि तत' मतं वस्तु वा 'चिन्तयेत' पर्यालोचयेत ‘मतिमान्' बुद्धिमानिति गाथार्थः । । किमित्येतदेवमित्यत आह अनुवकयपराणुगहपरायणा जं जिना जगप्पवरा । जियरागदोसमोहा य नन्नहावादिणो तेनं ।। ४९ ॥ वृ-अनुपकृते-परैवर्तिते सति परानुग्रहपरायणा-धर्मोपदेशादिना परानुग्रहोयुक्ता इति समासः, 'यद्' यस्मात् कारणात्, के ?- 'जिनाः' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- 'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद रागादिभावाद्वितथवादिनो भवन्त्यत आह-जितानिरस्ता रागद्वेषमोहा यैस्तेतथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेन’ति तेन कारणेन ते नान्यथावादिन इति, उक्तंच-“रागाद्वा द्वेषाद्वे" त्यादि।। उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीयम् रागद्दोसकसायासवांदे किरियासु वट्टमाणाणं । इहपरलोयावाओ झाइज्जा वज्जपरिवज्जी ।।५०॥ वृ-रागद्वेषकषायाश्रवादिक्रियासुप्रवर्तमानानामिहपरलोकापायान ध्यायेत, यथा रागादिक्रिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy