________________
१०४
आवश्यक-मूलसूत्रम् -२- ४/२१ सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा
___ “तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः ।
प्रावर्तत नदी धोरा, हस्त्यश्वरथवाहिनी ।।" इत्यादिवन्मृतामिति, तथा अजिता मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तंच
'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणन्नसरिसेणं ।
सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ।।' तथा 'महार्था मिति महानप्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्यगर्भत्वाच्च प्रधानां, महत्स्थां वा अत्र महान्तः-सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा चोक्तम्
_ 'सव्वसुरासुरमाणुसजोइसवंतरसुपूइयं नाणं ।
जेणेह गणहराणं छुहंति चुन्ने सुरिंदावि ।।' तथा 'महानुभावा' मिति तत्र महान-प्रधानः प्रभूतो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात, प्रभूतत्वं च प्रभूतकार्यकरणाद्, उक्तंच-पभूणं चोद्दसपुव्वी घडाओघडसहस्संकरित्तए' इत्यादि, एवमिहलोके, पत्रतुजघन्यतोऽपि वैमानिकोपपातः, उक्तंच.
'उववाओ लंतगंमिचोद्दसपुधीरस होइ उ जहन्नो ।
___उक्कोसो सघट्टे सिद्धिगमो वा अकम्मस्स ।।' तथा महाविषया' मितिमहद्विषयत्वं तुसकलद्रव्यादिविषयत्वाद, उक्तंच-‘दव्यओ सुयनाणी उवउत्ते सव्वदव्वाईजाणई'- त्यादि कृतं विस्तरेणेति गाथार्थः ।।
झाइज्जा निरवज्जं जिणाणमाणं जगप्पईवाणं ।
अनिउणजनदुन्नेयं नयभंगपमाणगमगहणं । । ४६ ।। वृ- 'घ्यायेत्' चिन्तयेदितिसर्वपदक्रिया, 'निरवद्या मिति अवघं-पापमुच्यते निर्गतमवघं यस्याः सा तथा ताम्, अनृतादिद्वात्रिंशदोषावघरहितत्वात, क्रियाविशेषणं वा, कथंध्यायेत?-निरवयंम्इहलोकाघाशंसारहितमित्यर्थः, उक्तंच- 'नो इहलोगठ्ठयाए नो परलोगट्ठयाए नो परपरिभवओ अहं नाणी' त्यादिकं निरवद्यं ध्यायेत्, 'जिनानां प्राग्निरूपितशब्दार्थानाम 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेपसंशयतिमिरनाशनाज्जगत्प्रदीपानामिति, आज्ञैव विशेष्यते- 'अनिपुणजनदुर्जेयां' न निपुणः अनिपुणः अकुशलइत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गह्वरा तां, तत्र नैगमादयो नवास्ते चानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथाएको जीव एक एवाजीव इत्यादि, स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि ।। तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानिद्रव्यादीनि, यथा नुयोगद्वारेषु गमाः- चतुर्विशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकादाविति कृतं विस्तरेणेतिगाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org