________________
१०३
अध्ययनं-४- [नि. १२७१] च- "आज्ञाऽपायविपाकसंस्थानविचयायधर्म्य' मित्यादि, तत्राऽऽघभेदप्रतिपादनायाह
___ सुनिउणमणाइणिहणं भूयहियंभूयभावणमहग्छ ।
अभियमजिवं महत्थं महानुभावं महाविसयं ।। ४५ ॥ वृ- सुष्ठु-अतीव निपुणा-कुशला सुनिपुणा ताम, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च, उक्तंच
___'सुयनाणंमि नेउन्नं, केवले तयनंतरं ।
__ अप्पणो सेसगाणंच, जम्हातं परिभावगं ।।' इत्यादि, इत्थं सुनिपुणां घ्यायेत, तथा 'अनाघनिधनाम' अनुत्पन्नशाश्वतामित्यर्थः, अनाधनिधनत्वं च द्रव्याघपेक्षयेति, उक्तं च-"द्रव्याथदिशादित्येषा द्वादशाङ्गी न कदाचिन्नासी" दित्यादि, तथा भूतहिता भिति इहभूत शब्देन प्राणन उच्यन्ते तेषां हितां-पध्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं च- 'सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, “भूतभावनाम' इत्यत्र भूतं-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम, उक्तंच
'कूराविसहावेणं रागविसवसाणुगावि होऊणं ।
भावियजिनवयणमना तेलुक्कसुहावहा होति ।। श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनाम्' इति सर्वोत्तमत्वादविघमानमूल्यामिति भावः, उक्तंच
'सव्वेऽवि य सिद्धता सदव्वरयणासया सतेलोक्का ।
जिनवयणस्स भगवओ न मुल्लमित्तं अनग्घेणं ।।' तथा स्तुतिकारेणाप्युक्तम्
__ "कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते ।
जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपिलोको लघुतामवैति ।।" इत्यादि, अथवा 'ऋणघ्ना मित्यत्र ऋणं-कर्म तदध्नामिति, उक्तंच
"जं अन्नाणी कम्मंखवेइ बहुयाहि वासकोडीहिं ।
तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ।।" इत्यादि, तथा अमिताम्' इत्यपरिमिताम्, उक्तंच
“सव्वनदीणं जा होज्ज वालुया सव्वउदहीण जं उदयं ।
एत्तोवि अनंतगुणो अत्थो एगस्स सुत्तस्स ।।" अमृतां वा मृष्टां वा पथ्यां वा, तथा चोक्तम्
"जिनवयणमोदगस्स उरत्तिं च दिवा य खज्जमाणस्स ।
तित्तिं बुहो न गच्छइहेउसहस्सोवगूढस्स ।। नरनरयतिरियसुरगणसंसारियसधदुक्खरोगाणं । जिनवयणमेगमोसहमपवग्गसुहक्खयंफलयं ।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org