________________
१०२
आवश्यक-मूलसूत्रम् -२- ४/२१ शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ।।
तो देसकालचेट्टानियमो झाणस्स नत्थि समयंमि ।
जोगाण समाहाणंजह होइ तहा यइयव्वं ।। ४१ ॥ वृ- यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्मादेशकालचेष्टानियमोध्यानस्य 'नास्ति' न विद्यते, क्व?- समये' आगमे, किन्तु योगानां' मनःप्रभृतीनां समाधान पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं (प्र)-यलः कार्य इत्यत्र नियम एवेति गाथार्थः ।। गतमासनद्वारम्, अधुनाऽऽलम्बनद्वारावयवार्थप्रतिपादनायाह
आलंबणावायणपुच्छणपरियट्टणानुचिंताओ ।
सामाइयाइयाहंसद्धम्मावस्सयाइंच ।। ४२ ।। वृ-इह धर्मघ्यानरोहणार्थमालम्ब्यन्त इत्यालम्बनानि ‘वाचनाप्रश्नपरावर्तनानुचिन्ता' इति तत्र वाचनं वाचना, विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्र इति, परावर्तनं तुपूर्वाधीतस्यैवसूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचनाच प्रश्नश्चेत्यादिद्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि चेति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिकं प्रतीतम्, आदिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेत विग्रहः, आवश्यकानि-नियमतः करणीयानि, चः समुच्चये इति गाथार्थः ।। साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह
विसमंभिसमारोहइदढदव्वालंबणो जहा पुरिसो ।
सुत्ताइकयालंबो तह झाणवरं समारुहइ ।। ४३ ॥ वृ- 'विषमे' निम्ने दुःसञ्चरे ‘समारोहति' सम्यगपरिक्लेशेनोल याति, कः ?- दृढं-बलवइव्यं रज्ज्वाद्यालम्बनं यस्यस तथाविधः, यथा 'पुरुषः पुमान कश्चित 'सूत्रादिकृतालम्बनः' वाचनादिकृतालम्बन इत्यर्थः, 'तथा' तेनैव प्रकारेण 'ध्यानवरं' धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः । । गतमालम्बनद्वारम, अधुनाक्रमद्वारासरः, तत्रलाधवार्थे धर्मस्य शुक्लस्य चाह
झाणप्पडिवत्तिकमो होइमनोजोगनिगाहाओ।
भवकाले केवलिणो सेसाणजहासमाहीए ।। ४४ ।। वृ. घ्यानं-प्राग्निरूपितशब्दार्थं तस्य प्रतिपत्तिक्रम इति समासः, प्रतिपत्तिक्रमःप्रतिपत्तिपरिपाट्यभिधीयते, स च भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमो?, न, किन्तु भवकाले केवलिन, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहर्तप्रमाण एव शैलेश्यवस्थान्तगृतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लघ्यान एवायं क्रमः, शेषस्यान्यस्यधर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं ? - यथासमाधिने ति यथैवस्वास्थ्यं भवति तथैव प्रतिपत्तिरति गाथार्थः ।। गतं क्रमद्वारम, इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org