________________
अध्ययनं -४- [नि. १२७१]
१०९ ___ भावार्थश्चतुर्विशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याइ-'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्वलोकपरिग्रह इति गाथार्थः ।। किंच-तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह
खिइवलय दीवसागरनरयविमाणभवणाइसंठाणं ।
वोमाइपइट्टाणं निययं लोगट्टिइविहाणं ।। ५४ ॥ वृ- 'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थान' तत्र क्षितयः खलु धर्माद्याईषत् प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि-धनोदधिधननवाततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपः-जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरपर्यन्ता असङ्ख्ययेया एव, निरयाः- सीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्
'तीसाय पन्नवीसा पनरस दसेव सयसहस्साई ।
तिनेगं पंचूणं पंच य नरगा जहाकमसो ।।' विमानानि-ज्योतिषीकादिसम्बन्धीन्यनुत्तर विमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि-भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि असंख्येयानि, (उक्तं)च
“सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा ।
__एसो भवणसमासो भवणवईणं वियाणेज्जा ।।" आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, उक्तंच
“हेटोवरिजोयणसयरहिए रयणाए जोयणसहस्से |
___ पढमे वंतरियाणं भोमा नयरा असंखेज्जा ।।" ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमादिप्रतिष्ठानम्' इत्यत्र प्रतिष्ठितिः प्रतिष्ठान, भावे ल्युट, व्योम-आकाशम्,
आदिशब्दाद्वाय्वादिपरिग्रहः,व्योमादौ प्रतिष्ठानमस्येत व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः २, स्थितिः व्यवस्था मर्यादा इत्यनान्तरं, तद्विधानं, किम्भूतं?- 'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थः । । किंच
उवओगलक्खणमणाइ निहणमत्थंतरं सरीराओ ।
जीवमरूविं कारिंभोयं च सयस्स कम्मस्स ।। ५५ ॥ वृ-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च- ‘स द्विविधोऽष्टचतुर्भेदः' स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा अर्थान्तरं' पृथग्भूतं, कुतः?-शरीरात्, जातोवेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'करि' निर्वतृकं, कर्मण इति गम्यते, तथा 'भोक्तारम्' उपभोक्तारं, कस्य? स्वकर्मणः-आत्मीयस्य कर्मणः,ज्ञानावरणीयादेरिति ।
तस्स य सकम्मजणियं जम्माइजलं कसायपायालं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org