________________
अध्ययनं ४ [ नि. १२७१]
इयकरणकारणानुमइविसयमनुचिंतणं चउभेयं । अविरयदेसासंजयजनमनसंसेवियमहन्नं ।। २३ ।।
वृ- 'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषयः-गोचरो यस्य तत्करणकारणानुमतिविषयं किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः सम्यग्दृष्टयः, इतरे च देशासंयताः श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाहइ अविरतदेशासंयता एव जनाः तेषां मनांसि चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र घ्यानचिन्तायां प्रधानाङ्गख्यापनार्थम, 'अधन्य' मित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः | | अधुनेदं यथाभूतस्य भवति यद्वर्द्धन चेदमिति तदेतदभिधातुकाम आहएवं चउव्विहं रागदोसमोहाउलस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।। २४ ॥
९७
"
वृ- 'एतद्' अनन्तरोक्तं 'चतुर्विधं' चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य ? - 'जीवस्य' आत्मनः, किं ? - रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह- 'संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ।।
साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाघन्ते
Jain Education International
कायोवनीलकाला लेसाओ तिब्वसंकिलिट्ठाओ ।
रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ।। २५ ।
बू - पूर्ववद् व्याख्येया, एतावाँस्तु विशेषः तीव्रसंक्लिष्टाः अतिसंक्लिष्टा एता इति, आहकथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयतिलिंगाई तस्स उस्सन्नबहुलनाणाविहामरणदोसा ।
तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ।। २६ ।।
वृ- ‘लिङ्गानि’ चिह्नानि ‘तस्य' रौद्रध्यायिनः, 'उत्सन्नबहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोषः नानाविधदोपः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन प्रबर्तमान उत्सन्नम- अनुपस्तं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वकत्वक्षणनयनोत्खननादिषु हिंसादि उपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्वतोऽपि स्वतः महदापगतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं ? - बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः । । किं च
वरवसणं अहिनंदइ निरवेक्खो निद्दओ निरनुतावो । हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो || २७ ॥
वृ- इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् - आपत् परव्यसनं तद् ‘अभिनन्दति'
25 7
For Private & Personal Use Only
www.jainelibrary.org