________________
९८
आवश्यक-मूलसूत्रम् -२- ४२१ अतिक्लिचित्तत्वाद्बहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच-'हृष्यते' तुष्यति 'कृतपायः' निर्वर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ।। उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह
• झाणस्स भावणाओ देसं कालं तहाऽऽसनविसेसं । आलंबणं कमंझाइयव्वयं जे य झायारो ।। २८ ॥
तत्तोऽनुप्पेहाओ लेस्सा लिगं फलंच नाऊणं ।
धम्मं झाइज मुनी तगयजोगो तओ सुक्कं ।। २९ ।। वृ- 'ध्यानस्य' प्राग्निरुपितशब्दार्थस्य, किं ?- 'भावना' ज्ञानाद्याः,ज्ञात्वेतियोगः, किंच-'देश' तदुचितं, कालं तथा आसनविशेषं तदुचितमिति, 'आलम्बनं' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं ध्येयमाज्ञादि, तथाये च ध्यातारः' अप्रमादादियुक्ताः, ततः ‘अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारुपाः, तथा लेश्याः' शुद्धा एव, तथा लिङ्गं श्रद्धानादि, तथा ‘फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं?-'धर्म्यम्' इति धर्मध्यानं ध्यायेन्सुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः ।।च्यासार्थे तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति।
पुवकयब्भासो भावनाहि झाणस्स जोग्गवसुपेइ ।
ताओ य नाणदंसणचरित्तयेरगजणियाओ ।। ३०॥ वृ-पूर्व-ध्यानात् प्रथमं कृततःनिवर्तितोऽभ्यासः-आसेवनालक्षणो येनस तथाविधः, काभिः, पूर्वकृताभ्यासः ? 'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चाद 'ध्यानस्य' अधिकृतस्य योग्यताम् अनुरुपताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियता:-परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ।। साम्प्रतं ज्ञानभावनास्वरुपगुणदर्शनायेदमाह
नाणे निच्चन्भासो कुणइमनोधारणं विसुद्धिं च ।
नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ।। ३१ ॥ वृ- 'ज्ञाने' श्रुतज्ञाने, नित्यं-सदा अभ्यासः-आसेवनालक्षणा ‘करोति' निर्वर्तयति, किं ?मनसः-अन्तःकरणस्य, चेतस इत्यर्थः,धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च' तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुनितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां ‘गुणपर्यायवत् द्रव्य मिति वचनात् पर्यायाणां च तदविनाभाविना मुणितः-ज्ञातः सार:-परमार्थो येन स तथोच्यते, ज्ञानगुणेन वाज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते सतधाविधः, ततश्चपश्चाद् 'ध्यायति' चिन्तयति, किंविशिष्टः सन् ? -सुष्टु-अतिशयेन निश्चला-निष्प्रकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः ।।
उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरुपगुणदर्शनार्थमिदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org