________________
आवश्यक-मूलसूत्रम् -२- ४/२१ पिसुणासभासब्भूयभूयवायाइवयणपणिहाणं ।
मायाविनोऽइसंधणपरस्स पच्छन्नपावस्स ।।२०॥ वृ- 'पिशुनासभ्यासद्भूतभूतधातादिवचनप्रणिधान'मित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदु'रिति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यंजकारमकारादिनसद्भूतमसद्भूतमनृतमित्यर्थः, तत्रव्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथाअभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं यथासर्वतोऽयभात्मेत्यादि, भूतनिलवस्तु नास्त्येवात्मेत्यादि, गामश्चमित्यादि Qवतोऽर्धान्तराभिधानमिति, भूतानांसत्वानामुपधातो यस्मिन् तद्भूतोपघातं, छिन्धि भिन्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वागतानेकभेद प्रदर्शनार्थः यथापिशुनम-नेकधाऽनिष्ठ सूचक मित्यादि, तत्रपिशुनादि वचनेष्वप्रवर्तमानस्यापि प्रवृति प्रति प्रणिधानं- दृढाध्यवसान लक्षणं, रोद्रध्यानमिति प्रकरणाद्गम्यते किं विशिष्टस्य संत इत्यत आह- माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा 'अति सन्धानपरस्य' परवञ्चनाप्रवृत्तस्य अनेनेशाषेष्वपि प्रवृत्तिमप्यास्याह तथा 'प्रच्छन्नपापस्य' कृहप्रयोगकारिणस्तस्यैव अथवा धिग्जातिककृतीधिंकाहेर सद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथा हि- गुणरहितमप्यान्मानं यो गुणवन्तंख्यापयतिनतस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः । उक्तो द्वितीयमेहः साम्प्रते तृतीय मुपदर्शयति
तह तिव्वकोहलोहाउलस्स भूओववायणमणज्जं ।
परदव्वहरणचित्तं परलोवावायनिविखेषणं ।।२१॥ वृ- तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीव्रौ-उत्कटौ तौ क्रोधलोभौ च ताभ्यामाकुलः- अभिभूतस्तस्य, जन्तोरिति गम्यते, किं ? - 'भूतोपहननमनार्य'मिति हन्यतेऽनेनेति हननम उप-सामीप्येन हननम उपहननं भूतानामुपहननं भूतोपहननम्, आराघातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित्तं, रोद्रध्यानमिति गम्यते, परेषां द्रव्यं सचित्तादि तद्विषयं हरणचित्तं परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह'परलोकापायनिरपेक्ष'मिति, तत्र परलोकापाया:-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ।। उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थं भेदमुपदर्शयन्नाह
सद्दाइविसवसाहणसारक्खणपरावणमनिट्ठ ।
सव्वामिसंकपरोववाकलुलाउकं चित्तं ।।२२।। वृ-शब्दादयश्चतेविषयाश्चशब्दादिविषयास्तेषांसाधनं-कारणंशब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दादिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम-उद्युक्तमिति विग्रहः, तथाऽनिष्टं-सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्यःकः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपधातएव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषाः-कषायास्तैराकुलं-व्याप्तं यत यत तथोच्यते, चित्तम-अन्तःकरणं,प्रकरणाद्रौद्रध्यानमिति गम्यते, इहचशब्दादिविषयसाधनंधनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञानार्थमिति गाथार्थः ।।
साम्प्रतं विशेषमि भधानगर्भमुपसंहरनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org