________________
९५
अध्ययनं -४- [नि. १२७१] कलावाणिज्यादीन्येतद्भ्यते, तथा प्रशंसति स्तौति बहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूतीः' परसम्पद इत्यर्थः तथा ‘प्रार्थयते' अभिलषति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिषुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीनामर्जने-उपादाने परायणउद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तघ्यायीति गाथार्थः ।। किंच
सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो परमायपरो ।
जिनमयमणवेक्खंतो वट्टइ अट्टमि झाणंमि ।।१७॥ वृ- शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मूर्च्छितः कासवानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्रदुर्गतौ प्रपन्तमात्मानंधारयतीतिधर्मः सँश्चासौधर्मश्चसद्धर्मः-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः परामुखः, 'प्रमादपरः' मघादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तघ्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगममरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम? -वर्तते आर्तघ्याने इतिगाथार्थः ।। साम्प्रतमिदमार्तघ्यानं सम्भवमधिकृत्य यदनुगतं यदनर्ह वर्तते तदेतदभिधित्सुराह
तदविरयदेसविस्या पमायपरसंजयाणुगं झाणं ।
सव्वप्पमायमूलं वज्जे जइजणेणं ||१८ ॥ वृ- 'तद्' आर्तघ्यानमिति योगः, 'अरितदेशविरतप्रमादपरसंयतानुग'मिति तत्राविरतामिथ्यादृष्टयः सम्यग्दष्टयश्च देशविरताः-एकद्वयाद्यणुव्रतधरभेदाः श्रावकाः प्रमादपराःप्रमादनिष्ठाश्च ते संयताश्चताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानितिभावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'जयितव्यं' परित्यजनीयं, केन ?- 'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ।। उक्तमार्तध्यानं, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तघथा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमास्वातिवाचकेन-“हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र''मित्यादि ।। तत्राऽऽधभेदप्रतिपादनायाह
सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं ।
अइकोहणहवत्थं निग्धिवणमनसोऽहमविवागं ।।१९ ॥ वृ- सत्त्वा-एकेन्द्रियादयः तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिःवेधस्तुनासिकादिवेधन कीलिकादिभिः बन्धनं-संयमनरज्जुनिगडादिभिः दहनंप्रतीतमुल्मकादिभिः अङ्कनं-लाञ्छनं श्वशृगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम-अकुर्वतोऽपि करणं प्रति दढाध्यवसानमित्यर्थः, प्रकारणाद रौद्रघ्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?'अतिक्रोधग्रहग्रस्तम' अतीवोत्कटो यः क्रोधः-रोषः स एवापायहेतुत्वाद्ग्रह इव ग्रहस्तेन ग्रस्तम्
अभिभूतं, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-'निघृणमनसः' निघृणं-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशेष्यते-'अधमविपाक मिति अधमः-जधन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य तत्तथाविधमिति गाथार्थः ।। उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org