SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ९४ आवश्यक-मूलसूत्रम् -२. ४/२१ निश्चयतः प्रतिषिद्धमेव, कथं ?. मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ।। इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य चित्तशुद्धैः क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तंभवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ? उच्यते-बीजत्वात् बीजत्वमेव दर्शयन्नाह रागो दोसोमोहो यजेन संसारहेयवो भणिया । अझुमि यते तिन्निवि तोतंसंसारतरुबीयं ।।१३।। वृ- रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते, 'आर्तेच' आर्तध्याने च ते 'त्रयोऽपि रागादयः संभवन्ति, यत एवं ततस्तत 'संसारतरुबीजं' भववृक्षकारणमित्यर्थः । आह-यद्येवमोधत एव संसारतरुबीजं ततश्च तिर्यगमिलमिति किमर्थमभिधीयते?, उच्यते, तिर्यगतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तुव्याचक्षते-तिर्यगतावेव प्रभूसत्त्वसम्भवात स्थितिबहुत्वाच्च संसारोपभार इति गाथार्थः ।। इदानीनीमार्तघ्यायिनो लेश्याः प्रतिपाद्यन्ते ___ कावोयनीलकालालेस्साओ नाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ ।।१४ ॥ वृ-कापोतनीलकृष्णलेश्याः किम्भूतः ? 'नातिसंक्लिष्टा' रौद्रघ्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यतआह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिताः, तत्र 'कृष्णादिद्रव्यसाचिव्यात, परिणामोव आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।। एताःकर्मोदयायत्ता इति गार्थाः ।। आह-कथं पुनरोधत एवाऽऽर्तव्याता ज्ञायत इति ?, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह तस्सऽक्कंदणसोयणपरि देवणताडणाई लिंगाई । इट्ठानिट्ठविओगाविओगवियणानिमित्ताई ।।१५।। वृ. 'तस्य' आर्तघ्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यं परिदेवनं-पुनः २ क्लिष्टभाषणं ताडनम्-उरःशिरःकुट्टनकेशलुञ्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तत्रेष्टवियोगनिमत्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः ।। ___ निंदह य नियकयाई पसंसइसविम्हओ विभुओ। पत्थेइ तासुरज्जह तयज्जणपरायणो होइ ।।१६॥ वृ- 'निन्दति च' कुत्सति च 'निजकृतानि’ आत्मकृतानि अल्पफलविफलानि कर्मशिल्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy