________________
अध्ययनं -४- [नि. १२७१] इति गाथार्थः ।। उक्तश्चतुर्थो भेदः, साम्प्रतमिदंयथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह
एयं चउव्विहं रागदोसमोहंकियस्स जीवस्स ।
अल्झाणं संसारवद्धणं तिरियगइगूलं ||१०॥ वृ- 'एतद् अनन्तरोदितं चतुर्विधं चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलञ्छितस्येत्यर्थः, कस्य ?- 'जीवस्य' आत्मनः, किम ?-आर्तघ्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धनमोधतः तिर्यगतिमूलं विशेषतइतिगाथार्थः । आह-साधोरपि शूलवेदनाभिभूतस्यासमावानात तत्प्रतिकारकरणेवतद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकार:
मज्झत्यस्स उमुणिणो सकम्मपरिणामजणियमेयंति ।
वत्थुस्सभावचिंतनपरस्स समं सहतस्स ।।११।। वृ- मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत-शूलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः उक्तं च परममुनिभिः-'पुब्बिं खलु भो ! कडाणं कम्माणं दुच्चिन्नाणं दुष्पडिकंताणं वेइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसावाझोसइत्ते'त्यादि, एवं वस्तुस्वभावचिन्तनपरस्य 'सम्यक् शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम?,अपितुधर्म्यमनिदानमिति वक्ष्यतीतिगाथार्थः ।। परिहत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह
कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्जं ।
तवसंजमपडियारंच सेवओ धम्ममणियाणं ।।१२॥ वृ-कुर्वतो वा, कस्य ?-प्रशस्तं-ज्ञानाद्युपकारकम् आलम्ब्यत इत्यालम्बनं-प्रवृत्तिनिमित्तं शुभमध्यवसानमित्यर्थः उक्तंच
'काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं ।
गणंच नीती अनुसारवेस्सं, सालंबसेवी समुवेइमोक्खं ।।' इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य, किं कुर्वत इत्यत आह-'प्रतीकार' चिकित्सालक्षणं, किंविशिष्टम् ?. 'अल्पसावद्यम्' अवयं-पापं सहावधेन सावद्यम, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावधं यस्मिन्नसावल्पसावधस्तं, धर्म्यमनिदानेमेवति योगः, कुतः ?निर्दोषत्वात निर्दोषत्वं च वचनप्रामाण्याद, उक्तं च-'गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो'त्तीत्याघागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात, साधु चैतदिति, तथा तपःसंयमप्रतिकारंच सेवमानस्ये तितपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च, किं ?- 'धर्म्य' धर्मध्यानमेव भवति, कथं सेवमानस्य ?. 'अनिदान मिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितमित्यर्थः, आह-कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव, उच्यते, सत्यमेतदपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org