________________
९२
आवश्यक-मूलसूत्रम् -२- ४/२१ भाव?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगाभाव इति?, अनेन चानागतकालग्रहः, चशब्दातपूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सतइदं वियोगचिन्तनाघत आह-'द्वेषभलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ।। उक्त्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभित्सुराह
तहसूलसीसरोगाइयेयणाए व(वि) जोगपणिहाणं ।
तदसंपओगचिंता तप्पडियाराउलमणस्स ।।७॥ वृ- 'तथे ति धणियम्-अत्यर्थमेव, शूलशिरोगवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं ? "वियोगप्रणिधानं' वियोगे दृढाघ्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्ते'ति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो नस्यादिति?,चिन्ता चात्रघ्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेना तीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाघत आह-तत्प्रतिकारे-चिकित्सायामाकुलं-व्यग्रं मनःअन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाघार्तघ्यानमिति ।। उक्तो द्वितीयो भेदः,
इट्ठाणं विसयाईण वेयणाएय रागरतस्स ।
अवियोगऽज्झवसाणं तह संजोगामिलासो व ।।८|| वृ-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद वस्तुपरिग्रहः, तथा 'वेदनायाश्च' इष्टाया इति वर्तते, किम?-अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः-कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाघत आह-रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्यतद्भावितभूर्तेरिति गाथार्थः । उक्तस्तृतीयो भेदः, साम्प्रतंचतुर्थम् ।
देविंदचक्कवट्टित्तणाइंगुणरिद्धिपत्थणमईयं ।
अहमं नियाणचिंतणमन्नाणानुगयमचंतं ।।९।। वृ-दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः-चमरादयः तथा चक्रं-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो-भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणकद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणाः-सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तघाञ्चामयमित्यर्थः, किं तद्?- अधमं जघन्यं निदानचिंतन' निदानाध्यवसाय:, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह-किमितीदमधमम?, उच्यते, यस्मादज्ञानानुतमत्यन्तं, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते,
अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वचित्तं भवतिच महतमोक्षकाङ्ककतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org