________________
अध्ययनं -४- [नि. १२७१] जिनानांघ्यानं यावन्तंच कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः ।। साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात परतो यद्भवति तदुपदर्शयत्राह
अंतोमुहुतपरओ चिंता झाणंतरंव होज्जाहि ।
सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ।।४ ॥ वृ-'अन्तर्मुहूर्तात्परत' इतिभिन्नमुहूर्तादूर्ध्वं 'चिन्ता' प्रागुक्तस्वरूपा तथाघ्यानान्तरं वा भवेत्, तत्रेह न ध्यानादन्यद घ्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ? -भावनानुप्रेक्षात्मकं चेत इति, इदं च घ्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण निरूपयन्नाह-'सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत बहुवस्तुसङ्कमे सति ‘ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः इत्थं तावत सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम्, अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह
अटुंरुदं धम्म सुक्कं झाणाइतत्थ अंताई ।
निव्याणसाहणाई अवकारणमट्टलद्दाई । ।५ ॥ वृ- आर्तं रौद्रं धर्म्य शुक्लं, तत्र ऋतं-दुःखं तन्निमित्तो दढाध्यवसायः, ऋते भवभात क्लिष्टमित्यर्थः, हिंसाद्यातिक्रौर्यानुगतं रौद्रं, श्रुतचरणधर्मानुगतं धर्म्य, शोधयत्यष्टप्रकार कर्ममलं शुचं वा क्लमयतीति शुक्लम, अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुस्वमुपदर्शयति-तत्र' घ्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः किं ? -'निर्वाणसाधने' इह निर्वृतिः निवाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः ततश्च
'अट्टेण' तिरिक्खगरुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगसुक्कझाणेणं ।।'ति
यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येणधर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः- संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः तिर्यनरकभवग्रहइतिगाथार्थः । । साम्प्रतं यथोद्देशस्तथा निर्देश' इति न्यायादार्तव्यानस्य स्वरूपाभिधानावसरः, तच्चस्वविषयलक्षणभेदतश्चतुर्दा, उक्तंचभगवता वाचकमुख्येन-"आर्तममनोज्ञानांसम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्याहारौ ।। वेदनायाश्च ।। विपरीतंमनोज्ञादीनां । निदानं च ।। इत्यादि, तत्राऽऽधभेदप्रतिपादनायाह
___अमणुन्नाणं सदाइविसयवत्थूण दोसमइलस्स ।
धणियं विओगचितणमसंपओगानुसरणं च ।।६ ॥ बृ- 'अमनोज्ञाना मिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-शब्दादिविषयवस्तूना मिति शब्दादयश्च ये विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तुनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषां, किं ? सम्प्राप्तानां सतां धणियं' अत्यर्थ 'वियोगचिन्तनं' विप्रयोगचिन्तेतियोगः, कथं नुनामममैभिर्वियोग स्यादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org