________________
९०
आवश्यक-मूलसूत्रम् -२- ४/२१ ज्ञापनार्थचशास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः ।।
जं थिरमज्झवसाणं तं झाणं जंचलं तयं चित्तं ।
तंहोज्जभावना वा अनुपेहा वा अहब चिंता ।।२।। वृ- 'यदि'त्युद्देशः स्थिरं-निश्चलम अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति-यत स्थिरमध्यवसानं तद्ध्यानमभिधीयते, 'यच्चल मिति यत्पुनरनवस्थितं तच्चितं, तच्चोधतस्त्रिया भवतीति दर्शयति- 'तद्भवेद्भावना वेति तिच्चतंभवेद्भावना, भाव्यत इतिभावना ध्यानाभ्यासक्रियेत्यर्थः,वा विभाषायाम, अनुप्रेक्षा वेति' अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिघ्यानाद भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववत् ‘अथवा चिन्ते' तिअथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेतिया खलूक्तप्रकारद्वयरहिता चिन्तामनश्चेष्टा सा चिन्तेतिगाथार्थः ।। इत्थं घ्यानलक्षणमोघतोऽभिधायाधुनाघ्यानमेव कालस्वामिभ्यां निरूपयन्नाह
अंतोमुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि ।
छउमत्थाणं झाणंजोगनिरोहो जिणाणं तु ।।३।। वृ-इह मुहूर्तः-सप्तसप्ततिलवप्रमाणः कालविशेषोभण्यते, उक्तंच
'कालो परमनिरुद्धोअविभज्जो तंतुजाण समयं तु । समवा य असंखेज्जा भवंति ऊसासनीसासा ।। हठुस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो ।
एगेउसासनीसासे, एस पाणुत्ति वुच्चइ ।। सत्त पाणूणिसे थोवे, सत्तथोवाणि से लवे ।
लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ।। अन्तर्मघ्यकरणे, ततश्चान्तर्मुहर्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालं, किं? - 'चित्तावस्थान मितिचित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्थिर्यः, क्व? - ‘एकवस्तुनि' एकम-अद्वितीयं वसन्त्यस्मिन गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् २ 'छद्मस्थानां घ्यान मिति, तत्रछादयतीति छद्म-पिधानंतच्चज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'घ्यानं' प्राग्वत्, ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन वस्तुनि तच्छद्मस्थानां घ्यानमिति, 'योगनिरोधो जिनानां त्वि'ति तत्र योगाः- तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-“औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचि व्याज्जीवच्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीर व्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः" इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः,प्रलयकरणमित्यर्थः, केषां? - 'जिनानां' केवलिनां, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं, चित्तस्यैवाभावाद, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम, अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो
Jain Education International
For Private & Personal Use Only
For Priva
www.jainelibrary.org