________________
अध्ययनं -४- [नि. १२७१] दिलक्षणमार्तं तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धर्म्य तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः । व्यासार्थस्तु ध्यानशतकादवसेयः, -ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह
वीरं सुक्कज्झाणग्गिट्ठकम्मिधणं पणमिऊणं ।
जोईसरं सरन्नं झाणज्झयणं पवक्खामि ।।१।। वृ-वीरं- शुक्लघ्यानाग्निदग्धकर्मेन्धनं प्रणमय ध्यानाघ्ययनं प्रवक्ष्यामीति योगः, तत्र २ गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण रयति कर्म गमयति याति देह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्लं, शोकं ग्लपयतीत्यर्थः, घ्यायतेचिन्त्यतेऽनेन तत्त्वमिति घ्यानम, एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद घ्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लघ्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्मज्ञानावरणीयादि तदेवातितीव्रदुःखानललनिबन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लघ्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षण मनोवाक्काययोगेर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाद घ्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं २ तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणमयेत्यत आह-'योगेश्वरं योगीश्वरं वा' तत्र युज्यन्त इति योगाः-मनोवाक्कायव्यापारलक्षणाः तैरीश्वरःप्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनोवाक्कायव्यापारा इति, यथोक्तम्
'दव्वमनोजोएणंमननाणीणं अनुत्तराणं च ।
संसयवोच्छित्तिं केवलेण नाऊण सइकुणइ ।। रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा |
मननिव्वाणी वाणी जोयणनिहारिणीजं च ।। एक्काय अनेगेसिं संसयवोच्छेयणे अपडिभूया । नय निविज्जइ सोया तिप्पइ सव्वाउएणंपि ।। सव्वसुरेहितोवि हु अहिगो कंतो य कायजोगो से ।
तहवि य पसंतरूवे कुणइ सया पाणिसंधाए ।। इत्यादि, युज्यतेवाऽनेन केवलज्ञानादिना आत्मेतियोग:-धर्मशुक्लघ्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तैरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा श्वरो योगीश्वरः, श्वरः प्रभुः स्वामीत्यनान्तरं, योगीश्वरम, अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयीमत्यर्थः, पुनरपिस एव विशेष्यते-शरण्यं, तत्रशरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, घ्यानाध्ययनं प्रवक्ष्यामीत्येतद व्याख्यातमेव । अत्राऽऽह-यः शुक्लघ्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न, अभिप्रायापरिज्ञानाद, इह शुक्लघ्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाक्कायातिशयाभावात, स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्यभिचारेऽज्ञातFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International