________________
८१
अध्ययनं -४- [नि. १२७१] सर्वे ये मया जीवा विराधिना-दुःखेन स्थापिताः, एकेन्द्रियः पृथिव्यादयः, द्वीन्द्रियाः-कृम्यादयः, त्रीन्द्रियाः-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्चीकृताः,धूल्या वा स्थगिताइति, श्लेषिताःपिष्टाः, भूम्यादिषुवालगिताः, सङ्घतिता-अन्योऽन्यंगात्रैरेकत्रलगिताः,सङ्घट्टिता-मनाक्स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुदधातं नीताः ग्लानिमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानातस्थानान्तरंसङ्क्रामिताः स्वस्थानात परंस्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्वपद, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थंगमनातिचारप्रतिक्रमणमुक्तम्, अधुनात्वग्वर्तनस्थानातिचारप्रतिक्रमणप्रतिपादयन्नाह
मू. (१७)इच्छामि पडिक्कमिउंपगामसिज्जाए निगामसिज्जाए संथाराउव्वट्टणाए परिवहणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसे ससरकखामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआएपाणभोयणविप्परिआसिआए जो मे देवसिओ अइआरोकओतस्स मिच्छामि दुक्कडं।।
वृ. इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालभाह, 'मिच्छामि दुक्कडं' इत्यनेन तुनिष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, ‘शी स्वप्ने' अस्य यप्रत्ययान्तस्य कृत्यल्युटो बहुल' मिति वचनात शयनं शय्या प्रकाम-चातुर्यामं शयनं प्रकाशय्या शेरतेऽस्यामिति वा शय्यासंस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाघकरणतश्चेहातिचारः, प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत, उद्वर्तनं तत्प्रथमतया वामनापर्धेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तनमुद्वर्तनमेवोतना तया, परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेवपरिवतना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः,आकुञ्चनंगात्रोचलक्षणं तदेवाकुञ्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्
'कुक्कुडिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोविआउंटे ।। अइकुंडिय सियताहे जहियं पायस्सपण्हिया ठाइ । तहियंपमज्जिऊणंआगासेणंतुणनेऊणं ।। पायं ठावित्तुतहिं आगासे चेव पुणोवि आउंटे | एवं विहिमकरेंते अइयारो तत्थ से होइ ।। षट्पदिकानां-यूकानां सट्टनम-अविधिना स्पर्शनंषटपदिकासट्टनं तदेवषटपदिकासघटना तया, तथा 'कूइए'त्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन अविधिना मुखवस्त्रिका करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषोच्चारणं सकर्करायितमुच्यते तस्मिन सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिवारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्षणम आमर्षः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन, सरजसकामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org