________________
८०
आवश्यक-मूलसूत्रम्-२-४/१५ श्रद्धानप्ररूपणालक्षणानां यत खण्डितं-देशतो भग्नं यद्विराधितं-सुतरां भग्नं, न पुनरेकान्ततो. ऽभावमापादितं, तस्यखण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, एतावता क्रियाकालमाहः तस्यैव ‘मिच्छामि दुक्कड' इत्यनेन तु निष्ठाकालमाह- मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथानि. (१२७१) पडिसिद्धाणं करणे किञ्चाणमकरणे य पडिक्कमणं ।
असद्दहणे यतहा विवरीयपरूवणाएय ।। वृ-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ?- प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् ‘अकारणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम्, अश्रद्धाने चतथा केवलिप्ररूपितानांपदार्थानांप्रतिक्रमणभिति वर्तते, विपरीतप्ररूपणायांच अन्यथा पदार्थकथनायांच प्रतिक्रमणमिति गाथार्थः ।। अनयाच गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसत्रे प्रतिपिद्धौ रागद्वेषो तयोः करणे कत्यस्त तन्निग्रहस्तस्याकरणे सामायिक मोक्षकारणमित्यश्रद्धाने असमभावलक्षणंसामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्योज्यं, चत्वारोमङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाघ्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमकित्याऽऽह__ मू. (१६) इच्छामि पडिक्कमिउंइरियावहियाए विराहणाए गमणागमणे पाणरमणे बीयकमणे हरियक्कमणेओसाउत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणेजे मेजीवा विराहिया एगिदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संधाइआ संधट्टिआ परिआविआ किलाभिआउदविआठाणाओठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं।।
वृ-इच्छामि-अभिलषामिप्रतिक्रमितुं-निवर्तितुम, ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते, तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडडं' इत्यनेन निष्ठाकालमिति, तोरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था र्यापथः तत्रभवैर्यापथिकीतस्यां, कस्यामित्यत आह. विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्येकवद्भावस्तस्मिन, तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह- 'पाणकमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणंपादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति,तथा बीजाक्रमणे, अनेन बीजानांजीवत्वमाहइ हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति, तत्रावश्यायः-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गईभाकृतयो जीवाः कीटिकानगराणि वा पनकः-फुल्लि दगमृत्तिकाचिस्खालम, अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायश्चोत्तङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं-आक्रमणंतस्मिन, किंबहुना!, कियन्तो भेदेनाऽऽख्यास्यन्ते?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org