SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ८२ आवश्यक - मूलसूत्रम् - २- ४ / १७ अधुना सुप्तस्योच्यते- 'आउलमाउलाए' त्ति आकुलाकुलया-ख्यादिपरिभोगविवाहयुद्धादि - संस्पर्शननानाप्रकारया स्वप्नप्रत्यया स्वप्ननिमित्तया, विराधनयेति गम्यते, सा पूनर्मूलोत्तरगुणातिचारविषया भवत्यतो भेदेन तां दर्शयन्नाह इत्धीविप्परियासियाए' त्ति स्त्रिया विपर्यासः स्त्रीविपर्यासः सब्रह्मासेवनं तस्मिन भवा स्त्रीवैपर्यासिकी तया स्त्रीदर्शनानुराग-तस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तयाः एवं मनसाऽध्युपपातो मनोविपर्यासः तस्मिन भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाहइ भयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः - अतिक्रम इत्यर्थः कृतो- निर्वर्तितिः 'तस्स मिच्छामि दुक्कडं' पुर्ववत्, आह- दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहिअपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ।। एवं त्वग्वर्तनास्थानातिचारप्रतिक्रमणममधियेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह मू. (१८) पडिक्कमामि गोयरचरियाए भिक्खायरियाए उग्वाडकवाडउघाडणाए साणावच्छादारासंघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अनेसणाए पानभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगसंहडाए रयसंसट्टहडाए पारिसाडणियाए पारिठावणिआए ओहासणभिक्खाए जं उम्गमेण उप्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिट्ठविअं तरस मिच्छामि दुकडं । वृ- प्रतिक्रमामि निवर्तयामि, कस्य ? गोचरचर्यायां- भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति योगः, गोश्वरणं गोचरः चरणं-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?भिक्षार्थं चर्या भिक्षाचर्या तस्यां, तथाहि लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन भिक्षामटनीति, कथं पुनस्तस्यामतिचार ? - ‘उग्घाडकवाडउग्घाडणाए’ उद्घाटम् अदत्तार्गलमीषतस्थगितं वा किं तत ? - कपाटं तस्योदघाटनंसुतरां प्रेरणम् उद्घाटक पाटोद्घाटनम् इदमेवोद्घाट कपाटोद्घाटना तया हेतुभूतया, इह चाप्रमार्जनादिभ्यो ऽतिचारः, तथा श्वानवत्सदारकसङ्घट्टनयेति प्रकटार्थ, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं 'मंडीपाहुडिया साहुमि आगए अग्गकूरमंडीए । तत्थ पवत्तणदोसो न कप्पए तारिसा सुविहियाणं । बलिपाडिया भन्नइ चउद्दिसिं काउ अच्चणियं ।। अग्र्गिम व छोढूणं सित्थे तो देइ साहुणो भिक्खं । साविन कप्पइ ठवणा भिक्खायरियाण ठविया उ ।। आधाकर्मादीनाम-उगमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतभूतया, तथा 'पानभोयणाए 'त्ति प्राणिनो-रसजादयः भोजने - दध्योदनादौ सङ्घट्टयन्ते - विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा प्राणिभोजना तया, तेषां च सङ्घट्टनादि दातृग्राहकप्रभवं विज्ञेयम, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy