________________
७२
आवश्यक-मूलसूत्रम् -२-४/१० सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेषः --
'उच्चारं पासवणंभूमीए वोसिरित्तु उवउत्तो । वोसरिऊणय तत्तो इरियावहिअंपडिक्कमइ ।। वोसिरइ मत्तगे जइ तो न पडिक्कमइ मत्तगंजो उ । साहू परिडवे नियमेण पडिक्कमे सोउ ।। खेलं सिंधाणं वाऽपडिलेहिय अप्पमज्जितहय । वोसिरिय पडिक्कमतं पिय मिच्छुक्कडं देह ।।' प्रत्युपेक्षितादिविधिविवेके तुन ददाति, तथाऽऽभोगेऽनाभोगेसहसात्कारेसति योऽतिचारस्तस्य प्रतिक्रमणम्
'आभोगो जाणतेन जोऽइयारो कओ पुणो तस्स ।
जायम्मिवि अनुतावे पडिकमणेऽजाणया इयरो ।।' अनाभोगसहसात्कारे इत्थंलक्षणे'पुट्विंअपासिऊणं छूढे पायंमिजं पुणो पासे । न य तरइ नियत्तेउं पायं सहसाकरणमेयं ।।' अस्मिंश्चसति प्रतिक्रमणम, अयंगाथाक्षरार्थः ।। इदं पुनः प्राकरणिकं'पडिलेहेउं पमिज्जियमत्तं पानं च बोसिरेऊणं । वसहीकयवरमेव उनियमेण पडिक्कमे साहू ।। हत्थसया आगंतुंगंतुंच मुहुत्तगंजहिं चिढे । पंथे वा वञ्चंतो नदिसंतरणे पडिक्कमइ ।।' गतं प्रतिक्रमणद्वारम्, अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोधतः पञ्चधा भवतीति,नि.(१२५०) मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं ।
कसायाण पडिकमणं जोगाणय अप्पसत्थाणं ।। वृ- मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यशिवेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैर्मिथ्यात्वंगतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम, असंयमः- प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, 'कषायाणां' प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, योगानांच' मनोवाकायलक्षणानाम 'अप्रशस्तानाम' अशोभनानां प्रतिक्रमणं, तेच प्रतिक्रान्तव्या इति। नि. (१२५१) संसारपडिक्कमणं चउव्विहं होइ आनुपुटवीए |
भावपडिक्कमणं पुन तिविहं तिविहेण नेयव्वं ।। वृ-संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं चतुर्विध' चतुष्प्रकार भवति 'आनुपूर्व्या' परिपाट्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (षामा) भोगानाभोगसहसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम, एवं तिर्यग्नरामवेष्वपि विभाषा, नवरंशुभनराभरायुर्हेतुभ्यो मायाघनासेवनादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यं, भावपडिक्कमणं पुण तिविहं तिविहेण नेयव्वं तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यं, पुनःशब्दस्यैवकारार्थत्वात्, एतदुक्तं भवति
मिच्छत्ताइ न गच्छइन य गच्छावेइनानुजाणेई ।
जं मनवइकाएहिं तंभणियं भावपडिकमणं ।। 'मनसा न गच्छति' न चिन्तयति यथा शोभनः शाक्यादिधर्मः वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्ग करोति, तथा 'न य गच्छावेइ' मनसा न चिन्तयति-कथमेष तच्च निकादिः स्यात्?, वाचान प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, 'नानुजाणइ'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org