________________
७१
अध्ययनं-४- [नि. १२४५] प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्ष वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ।।
आह-किमयमेवं भेदः प्रतिक्रमणकृतः? आहोश्चिदन्योऽप्यस्ति?, अस्तीत्याह, यतःनि.(१२४६) बावीसं तित्थयरा सामाइयसंजमं उवइसंति ।
छेओवट्ठावणयं पुन वयंति उसभो य वीरोय ।। वृ-'द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिकंसंयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति-प्रथमतीर्थकरघरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायिकसंयतो भवति तावद् यावच्छत्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत्, अधुना तु षडजीवनिकायावगमं यावत तथा पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन्व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः, पुनर्मूलस्थानं प्राप्त उपस्थाप्यत इतिगाथार्थः ।। अयं च विशेष:
'आचेलुक्कोद्देसिय सिज्जातररायपिंडकिइकम्मे ।
वयजिट्ठपडिक्कमणे मासंपज्जोसवणकप्पे ।।' एतद्राथानुसारतोऽवसेयः, इयं च सामायिके व्याख्यातैवेति गतं प्रासङ्गिकम, अधुना यदुक्तं 'सप्रतिक्रमणो धर्म' इत्यादि, तत्प्रतिक्रमणं दैवसिकादिभेदेन निरूपयवाहनि.(१२४७) पडिकमणं देसिय राइयं च इत्तरियमावकहियं च ।
पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ।। वृ- 'प्रतिक्रमणं' प्राग्निरूपितशब्दार्थ, 'दैवसिकं' दिवसनिर्वृत्तं रात्रिकं' रजनिनिवृत्तम्, इत्वरं तु-अल्पकालिकं दैवसिकाद्येव ‘यावत्कथिकं' यावज्जीविकं व्रतादिलक्षणं पाक्षिकं पक्षातिचारनिवृत्तम्, आह-दैवसिकेनैवशोधिते सत्यात्मनि पाक्षिकादि किमर्थम् ?, उच्यते, गृहपृष्टान्तोऽत्र
____ 'जहं गेहं पइदियहपिसोहियं तहवि पक्खसंधीए ।
सोहिज्जइ सविसेसं एवं इहयंपिनायव्यं ।। एवं चातुर्मासिकं सांवत्सरिकम, एतानि हि प्रतीतान्येव, 'उत्तमार्थे च' भक्तप्रत्याख्याने प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः । । साम्प्रतं यावत्कथिकंनि.(१२४८) पंच यमहव्वयाईराईछट्ठाइ चाउजामोय ।
भत्तरपरिण्णा यतहा दुहंपिय आवकहियाइं । वृ- पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि 'राईछट्ठाई ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिषष्ठानि पुरिमपश्चिमतीर्थकरयोस्तीर्थ इति, 'चातुर्यामश्च' निर्वृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादिपरिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद्, मध्यामानां च यात्कथिकान्येतानीति गाथार्थः ।। इथं यावत्कथिकमनेकभेदभिन्न प्रतिपादितम्, इत्वस्मपिदैवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाहनि. (१२४९) उच्चारे पासवणे खेले सिंधाणेए पडिक्कमणं ।
आभोगमनाभोगे सहस्सकारे पडिक्कमणं ।। वृ-'उच्चारे' पुरीषे 'प्रस्रवणे' मूत्रे खेले' श्लेष्पणि सिवानके' नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org