SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ७० आवश्यक-मूलसूत्रम् -२-४/१० गोसे आणावियाणि, सम्भावं पुच्छिएण कहियं स्यएण, एस दव्वविसोही, एवं साहुणावि अहीनकालभायरियस्स आलोएयव्यं, तेन्न विसोही कायव्यत्ति, अगओ जहा नमोक्कारे, एवं साहुणाऽवि निंदाऽगएण अतिचारविसं ओसारेयव्यं, एसा विसुद्धी ।। उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाहनि. (१२४३) आलोवणमालुंचन वियडीकरणंच भावसोही य । आलोइयंमि आराधना अनालोइए भयणा ।। वृ- अवलोचनम् आलुञ्चनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यभवलोकनं करोति, किंकुसुमानि सन्ति? उत नेति, दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्ग्रन्थनं करोति, ततो ग्राहका गृहन्ति, ततोऽस्याभिलषितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चादालुञ्चनं स्पष्टबुद्धयाऽपराधग्रहणं, ततो विकटीकरणं गुरुलधूनामपराधानां विभजनं, चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनं, ततो यथाक्रम गुरोनिवेदनं करोति, एवं कुर्वतोभावशुद्धिरूपजायते, औदयिकभावातक्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन भवति, तत्रेत्यं भवति 'आलोयणापरिणओसम्मं संपदिओगरुसगासं। जइ अंतरावि कालं करिज्ज आराहओ तहवि ।।' एवं तुन भवति- 'इड्कीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं । जो न कहेइ गुरूणं न हुसो आराहओ भणिओ ।।' त्ति गाथार्थः इथं चालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमघरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वासाधुनाशुद्धिः कर्तव्या,मध्यमतीर्थकरतीर्थेषु पुन वं, किन्त्वतिचारवतएव शुद्धिः क्रियत इति, आह चनि.(१२४४) सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिनस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ।। वृ-सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोचारादिविवेके उभयकालंचापराधो भवतुमा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु मध्यमानां जिनानाम' अजितादीनां पार्श्वपर्यन्तानां ‘कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं ति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः । तथा चाहनि.(१२४५) जो जाहे आवन्नो साहू अन्नयरयंमि ठाणंमि । सोताहे पडिक्कम मज्झिमयाणं जिनवराणं ।। वृ- 'यः' साधुरितियोगः 'यदा' यस्मिन काले पूर्वाह्नादौ 'आपन्नः' प्राप्तः ‘अन्यतरस्मिन् स्थाने' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy