________________
आवश्यक - मूलसूत्रम् - २- ४ /१० निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ।।
इह च यथा करणात कर्मकर्त्रीः सिद्धिः, तद्व्यतिरेकेण करणत्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामक प्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारः
६२
नि. ( १२३१ ) पडिकमणं पडिकमओ पडिकमियव्वं च आनुपुवीए । तीए पप्पन्ने अनागए चेव कालंमि ||
वृ- 'प्रतिक्रमणं' निरूपितशब्दार्थ, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्मअशुभयोगलक्षणम्, 'आनुपूर्व्या' 'परिपाट्या, 'अतीते' अतिक्रान्ते 'प्रत्युत्पन्ने' वर्तमाने 'अनागते 'चैव' एष्ये चैव काले, प्रतिक्रमणादि योज्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं यत् उक्तम्- 'अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अनागयं पञ्चक्खामि' त्ति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते, प्रतिक्रमणशब्दो यत्रा शुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः । । साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाह
नि. (१२३२)
जीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झापमत्था जोगा जे ते न पडिक्कमे साहू ।।
बृ- 'जीवः' प्राग्निरूपित शब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामक:, तुशब्दो विशेषणार्थः, सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ? - सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ? - अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह- पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ च तौ योगौ च प्रशस्तयोगौ, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान सेवेत, मनोयोगप्राधान्यख्यापनार्थे पृथग् ध्वानग्रहणं, प्रशस्तयोगोपादानच्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तभवगन्तव्यम्, आह- 'यथोदेशं निर्देश' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः ?, तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यात कर्त्रधीनतवाच्च क्रियाया इत्यदोषः, इत्थमेवोपन्यासः कस्मान्न कृत इति चेत प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः । । उक्तः प्रतिक्रमकः, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायैर्व्याचिख्यासुरिदमाहनि. (१२३३) पडिकमणं पडियरणा परिहरणा वारणा नियत्तीय !
निंदा गरिहा सोही पडिकमणं अट्ठहा होइ ।।
वृ- 'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुना भेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽह
नि. (१२३४)
नामं ठेवणा दविए खित्ते काले तहेव भावे य ।
एसो पडिकमणस्सा निक्खेवो छव्विहो होइ ।।
वृ-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वाह्निवस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन क्षेत्रे व्यावर्ण्यते क्रियते वा यतो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org