SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ [ नि. १२३४] - ६३ प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्रुवं च तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा व ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु त्वध्रुवंकारणजाते प्रतिक्रमणमिति भावप्रतिक्रमणं द्विधा - प्रशस्तमप्रशस्तं च, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेरिति प्रशस्तेनात्राधिकारः । । प्रतिचरणा व्याख्यायते - 'चरगतिमक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च षडिधा, तथा चाहनि. (१२३५ ) नामंठवणादवि खित्ते काले तहेव भावे य । एसो पडियरणाए निक्खेबो छव्विहो होइ ।। वृ-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यगदृष्टेस्तेषु तेष्वर्थेष्वाचरणीयेषु चरणं - गमनं तेन तेन प्रकारेण लब्ध्यादिनमित्तं वा उपयुक्तस्य वा निह्नवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, तथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणा, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वेधाप्रशस्ताऽशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यगदर्शनज्ञानचारित्रप्रतिचरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं प्रवर्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः । । इदानीं परिहरणा, 'हञ् हरणे' अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैवर्जनेत्यर्थः, सा च अष्टविधा, तथा चाह नि. (१२३६) - नामं ठवणा दविए परिरय परिहार वज्जणाए य । अनुगह भावे य तहा अडविहा होइ पहिरणा ।। बृ- नामस्थापने गतार्थे, द्रव्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लबध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिश्यपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापहिरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपहिरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, भावपरिहरणाप्रशस्ता अप्रशस्ता च, अप्रशस्ता ज्ञानादिपरिहरणा, प्रशस्ता क्रोधादिपरिहरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानी, 'वृञ् वरणे' इत्स्य ण्यन्तस्य ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेक्तः षोढा भवति, तथा चाह नि. (१२३७) नामं ठवणा दविए खिते काले तहेव भावे य । एसो उ वारणाए निक्खेवो छव्विहो होइ ।। वृ- तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेर्वा देशनायां उपयुक्तस्य वा निह्नवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy