SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ६१ अध्ययनं -३- [नि. १२३०] __ साहू खवंति कम्मं अनेगभवसंचियमनंतं ।। वृ- 'एवम्' अनन्तरदर्शितं कृतिकर्मविधि' वन्दनविधियुञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कर्म ‘अनेकभवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः, कियद् ? -अनन्तमिति गाथार्थः ।। उक्तोऽनुगमः, नया सामायिकनिर्युक्ताविव द्रष्टव्याः ।। कृत्वा वन्दनविवृत्तिं प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलं सत्त्वा मोक्षाय सेवन्तु ।। अध्ययनं ३ समाप्तम मुनिदीपरत्नसागरेण संशोधिता सम्पादिता-आवश्यकसूत्रे तृतीयअध्ययनं सनियुक्तिभाष्यटीका परसिमाप्तम् (अध्ययनं -४ प्रतिक्रमणं) वृ-व्याख्यातं वन्दनाघ्ययनम्, अधुना प्रतिक्रमणाध्ययनभारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽहंदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम, इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपाघते, यद्वा वन्दनाघ्ययने कृतिकर्मरूपायाः साधुक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम् ___ विनओवयार मानस्स भंजणा पूयणा गुरुजनस्स । तित्थयराण य आणासुअधम्माऽऽराहणाऽकिरिया ।। प्रतिक्रमणाध्ययने तुमिथ्यात्वादिप्रतिक्रमणद्वारेण कनिदाननिषेधः प्रतिपाद्यते, वक्ष्यति, च “मिच्छतपडिक्कमणं तहेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणं जोगाणय अप्पसत्थाणं ।। अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विशतिस्तवेत्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदंत्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्तुणा गुरोर्निवेदनीयं, तच्च वन्दनापूर्वमित्यतोऽनन्तराघ्ययने तन्निरूपितम, इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेयनीयमित्येतत प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्स्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिष्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'कमुपादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति- शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपंप्रतीकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तंच. "स्वस्थानाद यत्परस्थान,प्रमादस्य वशागतः । तत्रैव क्रमणंभूयः, प्रतिक्रमणमुच्यते ।। क्षायोपशमिकाभावादौदयिकस्य वशंगतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः ।। प्रति प्रतिक्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तंच "प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy