________________
५६
आवश्यक - मूलसूत्रम् -२- ३/१० भवतीति, उक्तं च परमर्षिभिः- तहारूवं नं भंत ! समणं वा माहणं वा वंदमाणस्स पज्जुवासमाणस्स किंफला वंदनपज्जुवासणया ?, गोयमा ! सवणफला, सवणे नाणफले, नाणे विन्नाणफले, विन्नाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमनफला' । तथा वाचकमुखेनाप्युक्तम् -
'विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः । संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ।। योगनिरोधादभवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः । । इति
नि. (१२१६)
विनओ सासने मूलं, विनीओ संजओ भवे । विनयाउ विप्पमुक्कस्स, कओ धम्मो कओ तवो ?
बृ - शास्यन्तेऽनेन जीवा इति शासनं-द्वारदशाङ्गं तस्मिन विनयो मूलं, यत उक्तम्मूलौउ खंधप्पभवो दुमस्स, खंधाउ पच्छा विरुहंति साला । साहप्पसाहा विरुवं ति पत्ता, ततो सि पुष्पं च फलं रसोय ।।
एवं धम्मस्स विनओ मूलं परमो से मोक्खो । जेण कित्ती सुयं सिग्धं निस्सेसमधिगच्छइ ।।" अतो विनीतः संयतो भवेत, विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः । । अतो विनयोपचारार्थे कृतिकर्म क्रियत इति स्थितम । आह-विनय इति कः शब्दार्थ इति उच्यते - नि. (१२१७) जम्हा विनयइ कम्मं अट्टविहं चाउरंतमुक्खाए । तम्हा उवयंति विऊ विनउत्ति विलीनसंसारा ।।
>
वृ- यस्माद्विनयति कर्म-नाशयति कर्माष्टविधं किमर्थं ? - चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीनसंसाराः ' क्षीणसंसार अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः । किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा | अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रं
मू. (१०) 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गह निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो ?, जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसियं वहक्कमं, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचिमिच्छाए मनदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए असायणाए जो मे अइयारो कओ तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org