________________
-
-
अध्ययनं -३- [नि. १२१७] वृ-तल्लक्षणंचेदंसंहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।। तत्रास्खलितपदोच्चारणंसंहिता, साच-इच्छामिखमासमणो वंदिउंजावणिज्जाएनिसीहिआए' इत्यवेसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि-इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिराभि । अधुना पदविभागः-इच्छामि क्षमाश्रमण! वन्दितुं यापनीयया नैषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधःकायं कायसंस्पर्श क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः?, यात्रा भवतां ? यापनीयं चभवतां ?, क्षमयामि क्षमाश्रमण! दैवसिकं व्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां देवसिक्या आशातनया त्रययस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतथा कायदुष्कृतया क्रोधया मानया मायया लोभयासर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया अंशातनया यो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि ।
साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इव इच्छायाम' इत्वस्योत्तमपुरुषैक वचनान्तस्य इच्छामीति भवति, 'क्षमूष् सहने' इत्यस्याऽन्तस्य क्षमा, 'श्रमुतपसि खेदे च' अस्य कर्तरि ल्युट श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमण: तस्याऽऽमन्त्रणं, वन्देस्तुमनप्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्वन्तस्य कर्तर्यनीयच्, यापयतीति यापनीया, तया, 'षिधुगत्याम्' अस्यनिपूर्वस्य धजि निषेधनं निषेधः निषेधेन निर्वृत्तानैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकेत्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थ तु न ब्रूमः, अयं च प्रकृतसूत्रार्थ:-अवग्रहाबहिःस्थितो विनेयोऽविनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्याप्राणातिपातादिनिवृत्तया तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुप्क्षेपादियुक्तः 'त्रिविधेने'तिभणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु 'छन्दसे'ति भणति, ततो विनेयस्तत्रस्थ एवमाह'अनुजानीत' अनुजानीध्वं अनुज्ञा प्रयच्छथ, 'मम'इत्यात्मनिर्देशे, कं ?-मितश्चासाववग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति -
अधस्तातकायः अधःकायः-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम अधुना 'क्लमो' देहग्लानिरूपः, तथा अल्पं-स्तोकं क्लान्तं-क्लमो येषां तेऽल्यक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो ?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरेगुरुर्भणति-तथेति, यथाभवान् ब्रवीति, पुनराह विनेयः-'यात्रा' तपोनियमादिलक्षणा क्षायिकमिश्रीपशमिकभावलक्षणा वा उत्सर्पति भवताम् ?, अत्रान्तरे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org