________________
अध्ययनं - ३ [ नि. १२१०]
५५
करं मन्यमानो वन्दते न निर्जरां 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिनेण मुच्चेमित्ति वंदनगं देइ २५-२६ 'आश्लिष्टानाश्लिष्ट' मित्यत्र चतुर्भङ्गकः- रजोहरणं कराभ्यामाश्लिष्यति शिरश्च १ रजोहरणं न शिरः र शिरो न रजोहरणं ३ न रजोहरणं नापि शिरः ४, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः २७, ‘ऊनं' व्यञ्चनाभिलापावश्यकैरसम्पूर्ण वन्दते २८, 'उत्तरचूडं' वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन बन्द इति भणतीति गाथार्थः २९ ।।
नि. (१२११ )
मूयं च ढडुरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोपरिसुद्धं, किइकम्मं पउंजई ।।
बृ- 'मूकम्' आलापकाननुच्चारयन् वन्दते २० 'ढड्डरं' महता शब्देनोच्चारयन वन्दते ३१ 'चुडली' ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ३२ 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्म कार्य, तथा चाह- द्वात्रिंशद्दोषपरिशुद्धं 'कृतिकर्म वन्दनं 'प्रयुञ्जीत' कुर्यादिति गाथार्थः । । यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति । नि. ( १२१२ ) किइकम्मंपि करितो न होइ किइकम्मनिज्जराभागी ।
बत्तीसामन्नयरं साहू ठाणं विराहिंतो ।।
वृकृतिकर्माणि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः । । दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोस परिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमानवासं वा ।।
नि. (१२१३)
वृ- द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः 'प्रयुङ्क्ते' करोति गुरखे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति गाथार्थः ।। आह- दोषपरिशुद्धाद्वन्दनात्को गुणः ? येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यतेनि. ( १२१४ )
आवस्सएसु जह जह कुणइ पयत्तं अहीनमइरितं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ।।
वृ- 'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा २ करोति प्रयत्नम 'अहीनातिरिक्तं' नहीनंनाप्यधिकं किम्भूतः सन ? - त्रिविधकरणोपयुक्तः मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा २ ‘से’ तस्य वन्दनकर्तुर्निर्जरा भवति कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपीरशुद्धादेव फलावाप्तिरिति गाथार्थः । । गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् अधुना किमिति क्रियत इति द्वारं, तत्र बन्दनकरणकारणानि प्रतिपादयन्नाह
नि. ( १२१५ )
Jain Education International
विन ओवयार मानस्स भंजणा पूयणा गुरुजनस्स । तित्थयराण य आणा सुअधम्माराहणाऽकिरिया ।।
दृ- विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याइ - 'मानस्य' अहङ्कारस्य 'भञ्जना' विनाशः, तदर्थः मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाअनुपालिता भवति, यतो भगववद्भिर्विनयमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्वनपूर्वे श्रुतग्रहणं, 'अकिरिय'त्ति पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् वियनादेव
For Private & Personal Use Only
www.jainelibrary.org