________________
अध्ययनं -३- [नि. ११९५]
असहं च नियत्तेइंगणतत्तिल्लो पवत्तीउ ।।। अस्यापिकृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरोतीति स्थविरः, उक्तंच
'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं ।
जो जत्थसीयइ जं संतबलोतं थिरं कुणइ ।। अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थो नावगन्तव्यः, साहचर्यादिति,सचेत्थम्भूतः
'उद्धावणापहवणखित्तोवधिमग्गणासु अविसा ।
सुत्तत्थतदुभयविऊ गणवच्छो एरिसो हइ ।। अस्याप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः-पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्ये तु भणन्ति-प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः । प्रथमद्वारगाथायां गतं 'कस्येति द्वारम, अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं? केनवान कर्तव्यं?,कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्रमातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकार:नि.(११९६) मायरं पियरंवावि जिट्टगंवाविभायरं ।
किइकम्मं न कारिज्जा सव्वे राइनिए तहा ।। वृ- मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम, अपिशब्दान्मातामहपितामहादिपरिग्रहः, 'कृतिकर्म' अभ्युत्थितवन्दनमित्यर्थः, न कारयेत सर्वान रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः, किमिति ?, मात्रादीन वन्दनं कारयतः लोकग)पजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत, सागारिकाध्यक्षे तु यतनया कारयेद, एष प्रव्रज्याप्रतिपन्नानां विधिः, गृहस्थास्तु कारयेदिति। साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाहनि.(११९७) पंचमहव्वयजुत्तो अनलस मानपरिवज्जियमईओ ।
संविगनिज्जरही किइकम्मको हवइ साहू ।। वृ- पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः ‘अनलस'त्ति आलस्यरहितः 'मानपरिवर्जितमतिः' जात्यादिमानपराङ्मुखमतिः ‘संविग्नः' प्राग्वयाख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्तव्यमिति गाथार्थ: ।। गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं ?, नि.(११९८) वक्खित्तपराहुत्ते अपपत्ते मा कया हुवंदिज्जा ।
आहारं च करितो नीहार वा जइ करेइ ।।। वृ- व्याक्षिप्तं धर्मकथादिना ‘पराहुत्ते यं' परामुखं, चशब्दादुद्भू (स्थि) तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीषानिर्गमनादयो दोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः । कदा वन्देतेत्यत आह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org