SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२-३/१० नि.(११९९) पसंत आसणत्थे य, उवसंते उवहिए। अनुनवित्तु मेहावी, किइकम्मं पउंजए ।। इ- 'प्रशान्त' व्याख्यानादिव्याक्षेपरहितम आसनस्थ' निषद्यागतम उपशान्तं' क्रोधादिप्रमादरहितम् ‘उपस्थितं' छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतंसन्तमनुज्ञाप्य मेघावी ततः कृतिकर्म प्रयजीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानितेष्वनुज्ञापयतीतिगाथार्थः । । गतं कंदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वः कृतिकर्म कार्य ?, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्वत उभयस्थाननिदर्शनायाऽऽइ नियुक्तिकारःनि. (१२००) पडिकमणे सज्झाए काउस्स्गगावराहपाहुणए । आलोयणसंवरणे उत्तमढे य वंदनयं ।। वृ-प्रतीयंक्रमणं प्रतिकमणम्, अपराधस्थानेभ्यो गुणस्थानेषुवर्तनमित्यर्थः, तस्मिन सामान्यतो वन्दनं भवति, तथा 'स्वाध्याये' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगतिपरिभोगायाऽऽचाम्लविसर्जनार्थे क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, प्राघूर्णक' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्रचायं विधिः"संभोइय अन्नसंभोइया य दुविहा हवंति पहुणया । संभोइय आयरियं आपुच्छिता उ वंदेह ।। इयरे पुणआयरियं वंदित्ता संदिसाविउं तह य । पच्छ वंदेह ज गयमोहा अहव वंदावे ।। .' तथाऽऽलोचनायां विहारापराधभेदभिन्नायां ‘संवरणं' भुक्तेः प्रत्याख्यानम्, अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृह्णतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थेवा' अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ।। इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्या प्रदर्शनायाऽऽहनि.(१२०१) चत्वारि पडिक्कमणे किइकम्मा तिन्नि हुँति सज्झाताए । पुटवण्हे अवरण्हे किइकम्मा चउदस हवंति ॥ वृ- चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति, स्वाध्याये पूर्वाह्न-प्रत्युषसि, कथं ? गुरु पुटवसंझाए वंदित्ता आलोएइत्ति एवं एक्वं, अब्भुट्ठियावसाणे जं पुणो वंदति गुरुंएवं बिइयं, एत्थय विही-पच्छा जहन्नेण तित्रिमज्झिमपंच वा सत्त वा उक्कोसं सब्वेविवंदियव्व, जइवाउला वक्खेवो वा तो इक्केण ऊणगाजाव तिन्नि अवस्संबंदियब्वा, एवं देवसिए, पक्खिएपंच अवस्सं, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरिस्स अल्लिविज्जइतं तइयं, पच्चक्खाणे चउत्थं, सज्झाएपुन वंदित्ता पढेवेइ पढम, पद्धविए पवेदयंतस्स बितियं, पच्छा उद्दिद्वंसमुद्दिटु पढइ, उद्देससमुद्देसवंदणाणमिहेवऽतभावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाएपडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो तो अवंदिता पाए पडिलेहेइ, पडिलेहिता पच्छा पढइ, कालवेलाए वंदिउं पडिक्कमइ, एयं तइयं । एवं पूर्वाह, सप्त, अपराह्वेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानांस्वाध्यायवन्दनेष्वेवान्तर्भावात्,प्रतिक्रमणिकानितुचत्वारिप्रसिद्धानि, एवमेतानि Jain Education International For For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy