SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४१ अध्ययनं -३- [नि. ११५४] जह कायगमंजणा ईजलदिट्ठीओ विसोहंति ।। वृ. 'युगपदपि' तुल्यकालभपि समुत्पन्नं सजातंज सम्यक्त्वं ज्ञानेन सह 'अधिगमं विशोधयति' अधिगम्यन्तेपरिच्छिद्यन्तेपदार्था येन सोऽधिगमः-ज्ञानमेवोच्यते,तमधिगमं विशोधयतिज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टान्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कधको वृक्षस्तस्येदंकाचकं फलम्, अञ्जनं-सौवीरादि, काचकंचाञ्जनंच काचकाञ्चने, अनुस्वारोऽत्रालाक्षणिकः, जलम-उदकं, दृष्टिः-स्वविषये लोचनप्रसारणलक्षणा, जलंच दृष्टिश्चजलदृष्टी तेविशोधयत इतिः ।।साम्प्रतमुफ्न्यस्तदृष्टान्तस्य दान्तिकेनांशतः भावनिकांप्रतिपादयत्राहनि.(११५५) जह २ सुज्झइसलिलं तह २ रूवाइं पासई दिट्ठी । इय जह जह तत्तरूतह तह तत्तागमो होइ ।। वृ- यथा २ शुद्ध्यति सलिलं काचकफलसंयोगात तथा तथा रूपाणि' तद्गतानि पश्यति द्रष्टा, 'इय' एवं यथा यथा 'तत्त्वरूचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं सम्यक्त्वं ज्ञानस्येति गाथार्थः ।। स्यादेतत्-निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यतेनि. (११५६) कारणकज्जविभागो दीवपगासाण जुगवजम्मेवि । ___ जुगवुप्पन्नपि तहा हेऊ नाणस्स सम्मत्तं ।। वृ- यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा ‘हेतुः' कारणं ज्ञानस्य सम्यक्त्वं, यस्मादेवं तस्मात्सकलगुणमूलत्वादर्शनस्य दर्शनिन एव कृतिकर्म कार्यम्, आत्मनाऽपि तत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति, उक्तंच द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महतोर्द्विषट्कस्य, सम्यग्दर्शनमिष्यते ।। अयं गाथाभिप्रायार्थः ।। इत्थं नोदकेनोक्ते सत्याहाचार्यःप्र.(9) नाणस्स जइविहेऊ सविसयनिययं तहाविसम्मत्तं । तम्हा फलसंपत्ती न जुज्जए नाणपक्खेव ।। प्र.(२) जह तिक्खरुविनरो गंतुं देसंतरं नयविहूणो । पावेइन तं देसं नयजुत्तो चेव पाउणइ ।। प्र.(३) इय नाणचरणहीणो सम्मद्दिट्टीवि मुक्खदेसं तु । पाउणइ नेय नाणाइसंजुओ चेव पाउणइ ।। वृ- इदमन्यकर्तृकं गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमितियोगः,अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रूमः तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयोपशमकार्यत्वात्, स्वविषयनियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषुरुचिरेव, तथाऽपि, 'तस्मात्' सम्यक्त्वात् ‘फलसंपत्ती न जुज्जए' फलसम्प्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिर्न घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिर्दष्टान्तैरसहायस्यज्ञानस्य एहिकामुष्मिकफलासाधकत्वमुक्तम्, एवमत्रापिदर्शनाभिलापेन द्रष्टव्यं, दिनमात्रंतु प्रदर्श्यते-यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy