________________
४२
आवश्यक-मूलसूत्रम् -२. ३/१० 'तीक्ष्णरुचिरपि नरः' तीव्रश्रद्धोऽपिपुरुषःक्क?-गन्तुंदेशान्तरं देशान्तरगमन इत्यर्थः, ‘नयनविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्राप्नोति न तं देशंगन्तुमिष्टं तद्विषय श्रद्धायुक्तोऽपि, नययुक्त एव प्राप्नोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरति तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तुन प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्राप्नोति, तस्माश्चितयं प्रधानम, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनादयं गाथात्रितयार्थः एवमपि तत्त्वे समाख्याते ये खल्वधर्ममूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदमिधित्सुराहनि.(११५७) धम्मनियत्तमया परलोगपरम्मुहा विसयगिद्धा ।
चरणकरणे असत्ता सेणियरायं ववइसति ।। वृ-धर्मः-चारित्रधर्मः परिगृह्यते तस्मानिवृत्तामतिर्येषां तेधर्मनिवृत्तमतयः, परः-प्रधानो लोकः परलोको-मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धाः' शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराजं व्यपदिशन्त्यालम्वनमिति गाथार्थः । । कथं ?नि. (११५८) नसेणिओ आसि तथा बहुस्सुओ, न यावि पन्नत्तिधरो न वायगो !
सो आगमिस्साइ जिनो भविस्सइ, समिक्ख पन्नाइ वरं खुदंसणं ।। वृ-न श्रेणिकः' नरपतिरासीत 'तदा' तस्मिन काले बहुश्रुतः' बह्वागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न चापिप्रज्ञप्तिधरः' न चापि भगवतीवेत्ता 'नवाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव ‘आगमिस्साए' त्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः ‘समीक्ष्य' दृष्ट्वा प्रज्ञया' बुद्धया दर्शनविपाकंतीर्थकराख्यफलप्रसाधकं 'वरं खुदंसणन्ति खुशब्दस्यावधारणार्थत्वात्वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, ! किंच-शक्य एवोपाये प्रेक्षावतः प्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराघ्यमनत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भश उपजायते सर्वस्यैवातःनि. (११५९) भद्रेण चरित्ताओ सुदुयरं दंसणं गहेयव्वं ।
सिझंति चरणरहिया दंसणरहिया न सिझंति ।। वृ- 'भ्रष्टेन' च्युतेन, कुतः ?-चारित्रात्, सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात, तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद्भावभावित्वादित्ययं गाथार्थः । । इत्थं चोदकाभिप्राय उक्तः,साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत, असहायदर्शनयुक्तत्वात्, अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह चनि. (११६०) दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स ।
अनुत्तरा दंसणसंपया तया, विना चरित्तेणऽहरं गइंगया ।। वृ- 'दशारसिंहस्य' अरिष्टनेमिपितृव्यपुत्रस्य श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकि नः ‘अनुत्तरां प्रधाना क्षायिकेति यदुक्तं भवति, का?- दर्शनसम्पत् तदा' तस्मिन् काले,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org