________________
४०
आवश्यक-मूलसूत्रम् -२- ३/१० च, उदायिनृफ्मारकमाथुरकोट्टइल्लादिभिर्व्यभिचारात, तथा च प्रतीतमिदम-असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः ।। नि.(११५०) भरहो पसन्नचंदो सब्भिंतरबाहिरं उदाहरणं ।
दोसुप्पत्तिगुणकरं न तेसि बझंभवे करणं ।। वृ- भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम, आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूषितस्यैवाऽऽदर्शनकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नं, बाह्य प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरंन तयोर्भरतप्रसन्नचन्द्रयोः ‘बझंभवे करणं तिछान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नामूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधान, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूष्णीभाव एव ज्यायान इति स्थितम्, इत्ययं गाथाभिप्रायः । इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्षं चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्यःनि.(११५१) पत्तेयबुद्धकरणे चरणं नासंति जिनवरिंदाणं ।
आहच्चभावकहणे पंचहि ठाणेहि पासत्था ।। वृ- प्रत्येकबुद्धाः- पूर्वभवाभ्यस्तोभयकरणाभरतादयस्तेषां करणंतस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, पाठान्तरं वा 'बोधिं नासिंति जिनवरिंदाणं' कथं ?- 'आहच्चभावकहण'त्ति कादाचित्कभावकथने-बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति?-पञ्चभिः 'स्थानः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः ।। यतश्चनि.(११५२) उम्मग्गदेसनाए चरणं नासिति जिनवरिंदाणं ।
वावन्नदसणा खलु न हुलब्भा तारिसा दटुं ।। वृ. उन्मार्गदेशनया अनयाऽनन्तरामिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापनदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः,खल्वित्यपिशब्दार्थो निपातः, तस्य च व्यवहितः सम्बन्धस्तमुपरिष्टात् प्रदर्शयिषयामः, न हुलब्भा तारिसा दटु'ति नैव कल्पन्तेतादृशाद्रष्टुमपीति, किंपुनर्ज्ञानादिना प्रतिलाभयितुमिति । गतंज्ञानद्वारम, दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्माधिकार एवावगतज्ञाननयमत इदमाहनि.(११५३) जह नाणेणं न विना चरणं नादंसणिस्स इय नाणं ।
नयदंसणं न भावो तेन रदिदि पणिवयामो ।। वृ- यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टेनिं मिथ्यादृष्टेविपर्यास' इति वचनात, तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतभित्यर्थः, तेन कारणेन ज्ञानस्य तद्भावभावित्वाद्दर्शनस्य ज्ञानोपकारकत्वाद रेति प्राग्वत 'दिट्ठिन्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनीतं, 'प्रणमामः' पूजयाम इति । स्यादेतत-सम्यक्त्वज्ञानयोयुगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, एतच्चासद्, यतः
नि.(११५४) जुगवंपि समुप्पन्नं सम्मत्तं अहिगमं विसोहेह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org