________________
अध्ययनं -३- [नि. ११४५]
नलहइस मुक्खसुक्खं लहइ य निदसपक्खाओ ।। - 'इय' एवं लिङ्गज्ञानाभ्यां सहितो-युक्तो लिङ्गज्ञानसहितः 'काययोग' कायव्यापारं 'न युङ्क्ते' न प्रवर्तयति, यस्तु 'न लभते' न प्राप्नोति ‘स' इत्थम्भूतः किं ?- 'मोक्षसौख्यं' सिद्धिसुखमित्यर्थः, लभते तु निन्दां स्वपक्षात, चशब्दात्खिसां च, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्ग,नृत्तज्ञानतुल्यं ज्ञानं,योगव्यापारतुल्यं चरणं, रङ्गपरितोषतुल्यः सङ्गपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः, शेषं सुगम, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः । । चरणरहितं ज्ञानमकिञ्चित्करमित्यस्यार्थस्य साधका वहवो दृष्टान्ताः सन्तीति प्रदर्शनाय पुनरपि दृष्टान्तमाहनि. (११४६) जाणतोऽपि य तरिठं काइयजोगंन जुंजइ नईए ।
सो वुज्झइ सोएणं एवं नाणी चरणहीनो ।। वृ- जाननपि च तरीतुं यः 'काययोग' कायव्यापारं न युङ्क्ते नद्यां स पुमान् ‘उह्यते' हियते 'श्रोतसा' पयःप्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माचरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमितिगाथाभिप्रायार्थः ।।
एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाहनि. (११४७) गुणाहिए वंदनयं छउमत्थो गुणागुणे अयाणंतो ।
वंदिज्जा गुणहीनं गुणाहियं वावि वंदावे ।। वृ- इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रन्थात्सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादग्रन्थाद, इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम, अतश्छद्मस्थस्तत्त्वतो गुणागुणान आत्मान्तरवर्तिनः 'अजानन' अनवगच्छन् किं कुर्यात ?, वन्देत वा गुणहीनं कञ्चित्, गुणाधिकं चापि वन्दापयेत उभयथाऽपि, च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्रतुविनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान, अलं वन्दनेनेति गाथाभिप्रायः ।। इत्थं चोदकेनोक्ते सति वयवहारनयनतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आहनि. (११४८) आलएणं विहारेणं ठाणाचंकमणेण य ।
सक्को सुविहिओ नाउंभासावेणइएणय ।। दृ- आलयः-वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहार:-मासकल्पादिस्तेन विहारेण, स्थानम-ऊर्ध्वस्थानं, चङ्क्रमणं-गमनं, स्थानं च चक्रमणं चेत्येकवद्धावस्तेन च, अविरुध्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्धृतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिकं समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ।। इत्थममिहिते सत्याह चोदकःनि.(११४९) आलएणं विहारेणं ठाणेचंकमणेण य ।।
नसको सुविहिओ नाउं भासावेणइएणय ।। वृ- आलयेन विहारेण स्थानचङ्क्रमणेन चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org