________________
३८
आवश्यक-मूलसूत्रम् -२-३/१० वृ- तस्मान्न बाह्यकरणं' पिण्डविशुद्धयादिकं मम प्रमाणं, न चापि 'चारित्रं' व्रतक्षणं, तद्ज्ञानाभावे तस्याप्यभवात्, अतो ज्ञानमम प्रमाणं,सति तस्मिन् चरणस्यापिभायात्, ज्ञानेच स्थितं यतस्तीर्थं, तस्यागमरूपत्वादिति गाथार्थः । किं चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात्, तच्च दर्शनं द्विधा-अधिगमं नैसर्गिक च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनि.(११४२) नाऊण य सब्भावं अहिंगमसंमंपि होइ जीवस्स ।
जासरणनिसगुगयाविन निरागमा दिट्ठी ।। वृ. 'ज्ञात्वा च' अवगम्य ‘सद्भाव' सतां भावः सद्भावस्तं, सन्तो जीवादयः, किम ?. अधिगमात्-जीवादिपदार्थपरिच्छेदलक्षणात् सम्यक्त्वं श्रद्धानलक्षणमधिगमसम्यक्त्वम्, इदमधिगमसम्यक्त्वमपि, अपिशब्दाच्चरित्रमपि, “भवति जीवस्य जायते आत्मन इत्यर्थः नैसर्गिकमाश्रित्याह-जातिस्मरणात सकाशात् निसर्गेण-स्वभावेनोगता-सम्भूता जातिस्मरणनिसर्गोद्गता, असावपि न निरागमा' आगमरहिता 'दृष्टिः'दर्शनं दृष्टिरिति, यतः स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाज्जातिमनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानंतस्मादिदमपिज्ञानायत्तोदयमितिकृत्वा ज्ञानस्य प्राधान्यात ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम्, अयं गाथार्थः । ।
इत्थं ज्ञानवादिनोक्ते सत्याहाचार्यःनि.(११४३) नाणं सविसयनिययं न नाणमित्तेण कज्जनिष्फत्ती ।
माण्णू दिटुंतो होइ सचिट्ठो अचिट्ठोय ।। वृ- 'ज्ञान' प्रकान्तं, स्वविषये नियतं स्वविषयनियतं, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिप्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, ‘सचेष्टः' सच्यापारः 'अचेष्टश्च अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति-यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्तिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणंकार्यसाधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः ।। प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराहनि.(११४४) आउज्जनकुसलावि नट्टिया तंज न तोसेइ ।
जोगं अजूंजमाणी निंद खिसं च सा लहइ ।। वृ- आतोद्यानि-मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्दविशेषलक्षम आतोद्यैः करणभूतैर्नृत्तम आतोद्यनृत्तं तस्मिन कुशला-निपुणा आतोद्यनृत्तकुशला, असावपिनर्तकी, अपिशब्दात् रङ्गजनपरिवृत्ताऽपि 'तं जन' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः, किम्भूता सती? - 'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद रङ्गजनान्न किञ्चिद् द्रव्यजातं लभत इति गम्यते, अपि तु निन्दा खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना सा निन्दा, परोक्षे तुसा खिंसेति गाथार्थः । । इत्थं दृष्टान्तमभिधाय दान्तिकयोजनांप्रदर्शयन्नाहनि.(११४५) इय लिंगनाणसहिओ काइयजोगं न जुंज जोउ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org