________________
अध्ययनं - ३ - [ नि. ११३८ ]
अत्र च रूपकल्पं भावलिङ्ग टङ्ककल्पं द्रव्यलिङ्गम, इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्या पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः गच्छता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदर्धक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते रूपं शुद्धाशुद्धभेदं, टङ्कं विषमाहताक्षरविपर्यस्तनिविष्टाक्षरं नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटङ्कयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थः । । रूपकदृष्टान्ते दान्तिकयोजनां निदर्शयन्नाह
,
नि. (११३९ ) रूप्पं पत्तेयबुहा टंकं जे लिंगधारिणो समणा । दव्यरस य भावस्सय छेओ समणो समाओगो । ।
वृ- रूपं प्रत्येकबुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, टङ्कं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे- समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः || व्याख्यातं सप्रपञ्चं वैडूर्यद्वारं, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः
३७
'जं अन्नाणी कम्पं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उसासमित्तेणं । । तथा'सु ई जहा ससुत्ता न नास कयवरंमि पडियावि । जीव हा ससुतो न स गओऽवि संसारे ।। तथा'नाणं गिण्हइ नाणं गुणेइ नाणेण कुणइ किच्चाई । भवसंसारसमुद्दे नाणी नाणे ठिओ तरई ।।
तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम, अतो ज्ञानिन एव कृतिकर्म कार्यम्, आहअनन्तरगाथायामेव द्रव्यभावसमायोगे श्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याह
नि. (११४० )
कामं चरणं भावो तं पुण नाणसहिओ समाणे । न य नाणं तु न भावो तेन र नाणिं पणिवयामो ||
Jain Education International
वृ- 'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भावः' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः ' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधानं, न च ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थः ज्ञानमस्यास्तीति ज्ञानी तं ज्ञानिनं 'प्रणमामः ' पूजयाम इति गाथार्थः । । यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःतम्हा न बज्झकरणं मज्झपमाणं न यावि चारितं । नाणं मज्झ पमाणं नाणे अ ठिअंजओ तित्थं । ।
नि. ( ११४१ )
For Private & Personal Use Only
www.jainelibrary.org